________________
उपोद्घातः - [ नि. १९९ ]
एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति - अस्माकमपि 'स' राजा भवतु, वर्त्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति उक्तवन्तः, भगवानाह-यद्येव ‘मग्गह य कुलगरं' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तैर्याचितः सन् 'बेइ' त्ति पूर्ववदुक्तवान् ऋषभो 'भे' भवतां राजेति गाथार्थः । ततश्च ते मिथुनका राज्याभिषेकनिवर्त्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजयस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागतयाभिषेकं कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाह–
नि. (१९९) आभोएउं सक्को उवागओ तस्स कुणइ अभिसेअं । मउडाइअलंकारं नरिंदजोग्गं च से कुणइ ॥
वृ- गमनिका-‘आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शक्रो' देवराज उपागतः, ‘तस्य' भगवतः करोति ‘अभिषेकं' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयुरादिपरिग्रहः, चशब्दस्य व्यवहितः संबन्धः, नरेन्द्रयोग्यं च ' से' तस्य करोति, अत्रापि वर्त्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतु तस्स कासि अभिसेयं । मउडाइअलंकारं नरेंदजोग्गं च से कासी ॥' भावार्थः पूर्ववदेवेति गाथार्थः । अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्त्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवात् - इह द्वादशयोजनदीर्घं नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरीं चक्रे । अमुमेवार्थमुहसंहरन्नाह - अत्रान्तरे नि. (२००) भिसिणीपत्तेहिअरे उदयं घित्तुं छुहंति ।
१११
साहु विनीआ पुरिसा विनीअनयरी अह निविट्ठा ||
वृ- गमनिका - मिसिनीपत्रैरितरे उदकं गृहीत्वा 'छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोऽभिहितवान्- साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ गतमभिषेकद्वारम् इदानीं संग्रहद्वाराभिधित्सयाऽऽह
नि. (२०१)
आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं ।
धित्तूण एवमाई चउव्विहं संगहं कुणइ ॥
कृ गमनिका - अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं, गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् ‘'चतुर्विधं’ वक्ष्यमाणलक्षणं संग्रहं करोति, वर्त्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'चउव्विहं संगहं कासी' इति अयं गाथार्थः ।। स चायम्
नि. (२०२) उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहो भवे चउहा ।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥
For Private & Personal Use Only
Jain Education International
--
www.jainelibrary.org