________________
उपोद्घातः - [नि. २०४]
११३
योज्यं, यथा-'कयरे आगच्छति दित्तरूवे इत्यादि' “उवासणेति' उपासना-नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीना वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, ‘अत्थसत्थे य' त्ति अर्थशास्त्रं, 'बंधे धाते य मारणे ति' बन्धो-निगडादिजन्यः घातो-दण्डादिताडना जीविताद्व्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । नि. (२०५)जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ ।
वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य॥ वृ- एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः-नागादिपूजारूपा उत्सवाःशक्रोत्सवादयः समवायाः-गोष्ठ्यादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि-स्वस्तिकसिद्धार्थकादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवत्ः प्राग् देवैः कृतानि, पुनस्तदैव लोके प्रवृत्तानि, तथा 'वस्त्रं' चीनांशुकादि 'गन्धः' कोष्ठपुटादिलक्षणः 'माल्यं पुष्पदाम 'अलङ्कारः' केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । नि. (२०६)चोलो ३१ वण ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ ।
झावणा ३६ थूभ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४०॥ वृ-तत्र 'चूलेति' बालानां चूडाकर्म, तेषामेव कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधूसकाशं नयनमुपनयनं, 'वीवाहः' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः, दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोको च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कता लोके च प्रवृत्ताः, शब्दश्च-रुदितशब्दो भगवत्येवापवर्गं गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, सा इङिणिकादिलक्षणा इजिणिकाः कर्णमूले घण्टिका चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपित प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ।
इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह[भा.५] आसी अ कंदहारा मूलाहार य पत्तहारा य ।
पुप्फफलभोइणोऽवि अ जइआ किर कलगरो उसभो ।। वृ-गमनिका-आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा?, यदा किल कुलकर ऋषभः । भावार्थः स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन, किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः ।। तथा [भा.६] आसी अ इक्खुभोई इक्खागा तेन खत्तिआ हुंति ।
सणसत्तरसं धण्णं आभं ओमं च भुंजीआ । | 2487
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org