________________
उपोद्घातः [ नि. १६१]
ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् ।। यत आहजं चैव कुलगराण तं चैव होइ तासिंपि । जं पढमगस्स आउं तावइयं चेव हत्थिस्स ॥
नि. (१६२ )
वृ- गमनिका - यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि - कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधयीते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥
इदानीं भागद्वारं-कः कस्य सर्वायुष्कात् कुलकरभाग इति
नि. (१६३) जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिल्लट्ठति भागे कुलगरकालं वियाणाहि ।।
वृ- यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः । अमुमेवार्थं प्रचिकटयिषुराह
नि. (१६४)
पढमो य कुमार भागो चरमो य वुढभावंमि । ते पयणुपिज्जदोसा सव्वे देवेसु उववन्ना ॥
वृ- गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टी भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारं, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह— दो चेव सुवणेसु उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववन्नो ॥
नि. (१६५)
वृ- गमनिका - द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः । इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह
नि. (१६६ )
९९
हत्थी छच्चित्थीओ नागकुमारेसु हुंति उववन्ना ।
एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥
कॄ गमनिका-हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति - एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धिं प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः । उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाहनि. (१६७) हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ ।
Jain Education International
वुच्छं तासि विसेसं जहक्कमं आनुपुवीए ॥
वृ- गमनिका - हक्कारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्त्तन्ते, वक्ष्ये तासां विशेषं यथाक्रमंया यस्येति, आनुपूर्व्या परिपाट्येति गाथार्थः ॥
नि. (१६८ ) पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ ॥
For Private & Personal Use Only
www.jainelibrary.org