________________
१००
आवश्यक मूलसूत्रम्-१
वृ. गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हक्काराख्या, तृतीयचतुर्थयोरिभनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोश्चभनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवाधिकाराख्या, एताश्च लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेय इति गाथार्थः ॥ नि. (१६९) सेसा उ दंडनीई मानवगनिहीओ होति भरहस्स ।
उसभस्स गिहावासे असक्कओ आसि आहारो॥ वृ- गमनिका-शेष तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थिति-प्रदर्शनार्थं, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाध्वाः देवकुरुत्तरकुरूक्षेत्रयोः स्वादूनि फलानि क्षीरोदाच्चोदकमुपनीतवन्त इति गाथार्थः ॥
इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह[भा.३] परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ ।
चारग छविछेआई भरहस्स चउबिहा नीई॥ वृ- यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयं-परभाषणातु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानं, तथा मण्डलीबन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोतदिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥ अथ कोऽयं भरत इत्याह-ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते-स च ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनि (१७०) नाभी विनीअभूमी मरुदेवी उत्तरा य साढा य ।
राया य वइरणाहो विमाणसव्वट्ठसिद्धाओ । वृ-गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः, स चेत्थम्-नाभिरिति नाभि म कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बवा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः । इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहनि. (१७१) धनसत्थवाह धोसण जइगमन अडविवासठाणं च ।
बहुवोलीणे वासे चिता घयदानमासि तया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org