SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९८ आवश्यक मूलसूत्रम् - १ आसीदिति गाथार्थः ॥ नि. (१५८) चक्खूम जसमं च पसेणइअं एए पिअंगुवण्णाभा । अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ वृ- गमनिका - चक्षुष्मान् यशस्वा च प्रसेनजिते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभाछाया येषां ते तथाविधा इति गाथार्थः ॥ गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽहनि. (१५९) चंदजसचंदकंता सरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥ वृ- चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुः कान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति गाथार्थः । एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आहनि. (१६०) संघयणं संठाणं उच्चत्तं चैव कुलगरेहि समं । वण एगवण्णा सव्वाओ पियंगुवण्णाओ || वृ- गमनिका - संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः - आत्मीर्यैः समं अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्युना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥ स्त्रीद्वारं गतं इदानीं आयुर्द्वारम् - नि. ( १६१ ) पलिओवमदसमाए पढमस्साउं तओ असंखिज्जा । ते आनुपुव्विीणा पुव्वा नाभिस्स संखेज्जा | " वृ- पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः । अन्ये तु व्याचक्षते - पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येयाः-पल्योपमासख्येयभागा इति वाक्यशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं व्याख्येति । अन्ये तु व्याचक्षते - पल्योपमदशभागः प्रथमस्य आयुष्कं ततः शेषाणां 'असंखेज्जा' इति समुदितानां पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्ययभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः ?, पञ्चानामसंख्येयभागानां । पल्योपम- चत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पल्योपमंविंशति भागाः क्रियते तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातौ, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदर्ध किञ्चिन्युनं स चत्वारिंतमो भाग इति, उक्तं च‘पलिओवमट्ठभागे सेसंमि उ कुलगुरुप्पत्ती', तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येय-तम्ः, ततश्च कालो न गच्छति, आह- अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिष्टं, उच्यते, इष्टमिदं, अयुक्तं चैतत् मरुदेव्या संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy