________________
व्यवहार-छेदसूत्रम् - २- ४/११७भावतोऽनिक्षिप्ते एव, कुतः ? इत्याह-गुरुणामुपपातेन आज्ञया उवसतो निद्देसो आणा विनओ होंति एगढा इति वचनात् निक्षेपणादिति वाक्यशेषः । न च तथा योगस्य सर्वथा भंगो यत आहसालंबो विगति जो उ आपुच्छित्ताण सेवए । स जोगेदेभंगो उ सव्वभंगो विवज्जए ।।
[भा. २१४२ ]
वृ- सालम्बो विकृतिभिः प्रीणितः सन् क्षिप्रं ज्ञानादि ग्रहीष्यामीत्यालम्बनसहितो यो गुरुमापृच्छय विकृतीः सेवते परिभुङ्क्ते, स योगे योगस्य देशभंगो भवति न सर्वभङ्गो विपर्यये आलम्बनाभावे गुर्वनापृच्छायां च सर्वभङ्गाः । अथ साक्षाद्योगं निक्षिपति, न च सर्वभङ्ग इति का वाचो युक्तिरत आह[भा. २१४३ ] कारणे असुद्ध भुंजतो न उ असंजतो होइ ।
९४
तह कारणंमि जोगं, न खलु अजोगीय ठवेंतोवि ।।
वृ- यथा कारणे च्छिन्नाध्वकादावशुद्धमपि भुञ्जानो न तु नैवासंयतो भवति तथा कारणे दुर्बलत्वादिलक्षणे सति योगं स्थापनमपि खलु नैवायोगी भवति, ततो न सर्वभङ्गः । अन्नो इमो पगारो सोपडिच्छयस्स उ अहिज्जमानस्स ।
[ भा. २१४४ ]
माया नियडिय जुत्ते ववहारो सचित्तमादिम्मि ।।
वृ- प्रतीच्छकस्याधीयानस्यायं वक्ष्यमाणः प्रकारः तमेवोपदर्शयति । सचित्तादिकविषये यो मायानिकृतियुक्तो मायावञ्चनाभिप्रायो निकृतिस्तदनुरुप बहिराकाराच्छादनं ताभ्यां युक्तस्तस्मिन् व्यवहार आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च भणनीयः, तमेवभिधित्सुराहउप्पन्ने सचित्त जो उ निक्खिवे जोगं ।
[भा. २१४५ ]
सव्वेसि गुरुकुलाणं उवसंपज लोपिया तेन ।।
वृ- उप्पन्ने उत्पन्ने सचित्ते उपलक्षणमेतदचित्ते वा यो योगं निक्षिपति, किमुक्तं भवति । यदा यदा तस्य सचित्तादिकमुत्पन्नं भवति, तदा तदा गुरुं विज्ञपयति । अस्ति किञ्चित्प्रयोजनं साधयितव्यमतो निक्षिपाभि योगमिति, एवं मायाबहुलतया यो योगं निक्षिपति, तेन पापीयसा सर्वेषां गुरुकुलानां श्रुतोपसम्पल्लोपिता ।
[भा. २१४६ ] बहिया य अनापुच्छा विहीयाए आपुच्छणाए मायाए । गुरुवयणे पच्छकडो, अब्भुवगमे तस्स इच्छाए ।।
वृ- बहिरुद्भ्रामकभिक्षाचार्या गतो यः सचित्तादिकमुत्पन्नं यस्य सकाशेऽधीते तमनापृच्छय निजाचार्याणां प्रेषयति, तेनापि सर्वगुरुकुलानां श्रुतोपसम्पल्लोपिता, अमीषां च त्रयाणामपि मायानिष्पन्नं प्रायश्चित्तं मासगुरु सचित्तविषयं जधन्यमध्यमोत्कृष्टोपधिनिष्पन्नं, गुरुवयणपच्छकडोति । ये ते त्रिभिः प्रकारैरपहताः शिष्यास्ते कदाचित्स्नानादिषु समवसरणादौ मिलन्ति गुरुणा च पृष्टाः सन्तो यथावन्निवेदयन्ति, ततो व्यवहारे जाते स आचार्यवचनेन पश्चात् क्रियते पराजयते, तस्य सक्तं सर्वमाचार्यस्याभवतीत्यर्थः । अब्भुवगमे तस्स इच्छा इदि यदि पुनस्तेन पराजितेनाभ्युपगमः क्रियते, यथा न सर्व मया सुन्दरं कृतं मिथ्यादुष्कृतं ममेति तदा तस्यैवमभ्युपगमे इच्छया करोतु मा वा तदुत्पादितसचित्ताद्यपहरणमिति । । साम्प्रतमेतदेव गाथाद्वयोक्तं व्याख्यानयति
7
[भा. २१४७ ]
अहिज्रमाणे उ सचित्तं, उप्पन्नं तु जया भवे । निखितं भंते, कज्जुं मे किंचि बेतिउ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org