________________
९३
उद्देशकः-४, मूल- ११७, [भा. २१३५]
वृ-गतंजिकाद्वारमिदानीं महामहद्वारमाह[भा.२१३६] सक्कमहादीसुपमत्तंमातंसुरा छलेठवणा।
पीलिजंतुवअदढा इतरेउवहंतिनपढंति ।। वृ- महामहः शक्रमहादय आदिशब्दात् सुग्रीष्मकमहादिपरिग्रहः । तिसु ठवणत्ति अनागाढयोगप्रतिपन्नास्तेषांयोगोनिक्षिप्यते, किंकारणमितिचेदतआहमातंप्रमत्तंसन्तंकाचिमिथादृष्टिदेवता च्छलयेत् । अन्यच्च तेषु दिवसेषु विकृतयो लभ्यन्ते, ततो येऽढा दुर्बलाः सन्ति तैर्विकृति परिभोगत अप्पायन्तामिति योगनिक्षेपणं ये पुनरितरे आगाढयोगवाहिनस्तेषां योगो न निक्षिप्यते, केवलमन्यत् नोद्दिशन्ति, नापिपठन्ति, गतंमहामहद्वारमिदानीमध्वावमराजद्विष्टलक्षणंद्वारत्रयमाह[भा.२१३७] अद्धाणो मे जोगीणंएसियंसेसगाणापनगादी।
असतीए अनागाढे, निक्खिव सच्चासतीइयरे ।। वृ-अध्वनिग्रमानुग्रामिकेयोगंवहन्ति । अथ च्छिन्नाध्वकं तदा यत् एषितंप्रासुकमित्यर्थः । तत् योगिनां योगवाहिना दीयते, शेषाणां पञ्चकादि दातव्यं, किमुक्तं भवति । शेषाः पञ्चकपरिहान्या पञ्चकादिषु यतन्ते, अथ सर्वे योगवाहिनो न संस्तरन्ति ते प्रासुकेन, तत आह असति सर्वेषां तेषां योगवाहिनांप्रासुके अनागाढयोगवाहिनायोगस्यनिक्षेपः करणीयः ।अथसर्वथातत्रप्रासुकंन लभ्यते तत आह-सर्वेषां प्रासुकस्यासत्यभावे इतरेऽप्पागाढयोगवाहिनो निक्षिप्यन्ते, एवमवमोदर्ये राजद्विष्टेऽपिचभावनीयं ।। साम्प्रतमागाढे नवकवर्जनमिति व्याख्यानार्थमाह[भा.२१३८] आगादमिचजोगे, विगतीउनव विवज्जणीउ ।
दसमाए होइभयणा, सेसगभयणा विइयरम्मि ।। वृ- आगाढयोगे पक्वविकृतिव्यतिरेकेण शेषा नवापि विकृतयो विवर्जनीया दशम्याः पुनः पक्षविकृतेर्भवति भजना विकल्पना, आगाढं ग्लानत्वमधिकृत्य पूर्वप्रकारेण तस्याः सेवना भवति, शेषकालं नेति भावः । इतरस्मिन्नागाढयोगे शेषकाणामपि क्षीरादीनां विकृतीनां भजना विकल्पना आगाढग्लानस्यानागाढग्लानस्य चान्तरान्तरा विकृतिग्रहणाय कार्योत्सर्गस्यापिकरणाभ्यनुज्ञातात् ।। सम्प्रति निक्कारणेकारणे विगती इतिव्याख्यानयति[भा.२१३९] निक्कारेणन कप्पंति विगतीतोजोगवाहियो ।
कप्पंति कारणेभोत्तुंअनुन्नाया गुरुहिओ ।। वृ-योगवाहिन आगाढयोगवाहिनोवानिष्कारेणग्लानत्वादिकारणाभावेविकृतयः पूर्वप्रकारेणभोक्तुं न कल्पन्ते,कारणेपुनरनुज्ञाता गुरूभिर्भोक्तुंकल्पन्ते । न च कारणे योगनिक्षेपेऽपिदोषस्तथाचाह[भा.२१४०] विगतीकएणजोगं निक्खिवए दृढदुब्बले ।
सेभावतोअनिक्खित्तेनिक्खंतेवियतंमिओ ।। वृ- यः संहननेन दृढोपि सन् शरीरेण दुर्बल इति कृत्वा विकृतिकृते न भोगाय योगं निक्षिपति, से तस्य निक्षिप्तेपितस्मिन् योगंभावतःस योगोऽनिक्षिप्त एव गुर्वाज्ञया निक्षेपणात् ।। [भा.२१४१] विगतिकएणजोगंनिक्खिवे अदृढेबले ।।
सभावतो अनिक्खित्ते, उववाएण गुरुणउ ।। वृ- यो बली बलवानपि संहनेनादृढ इति कृत्वा विकृतिकृते न योगं निक्षिपति स योगस्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org