________________
व्यवहार-छेदसूत्रम् -२- ४/११७ ग्लानत्वे यानिशतपाकादिना पक्कानिधृततैलानितानिम्रक्षणाय दातव्यानि, । तथाप्यतिष्ठतिग्लानत्वे ग्लानमागाढतरंज्ञात्वा योगस्य सर्वथा निक्षेपणंकर्तव्यं, ।गतो द्वितीयो भङ्गः ।सम्प्रति तृतीयमाह[भा.२१३२] तिन्नितिगेगंतरिएगेलन्नागाढ निक्खिवपरेणं ।
तिनितिगाअंतरिया चउत्थवंतेनिक्खिवणा ।। वृ-अनागाढेयोगेआगाढेग्लानत्वे त्री दिवसानांत्रिकान्एकान्तरिकान्कारयेत् । तथाप्यतिष्ठति ततः परेणयोगस्य निक्षेपः कर्तव्यः, इयमत्रभावना-एकस्मिन्दिवसेविकृतिग्रहणायकायोत्सर्गः कृतः, द्वितीयेदिवसे पुनः कृतः कायोत्सर्ग एवं तृतीयेपिचतुर्थे दिवसे कृतेनिर्विकृतिकंपुनः पंचमषष्ठमसप्तमेषु कायोत्सर्गः ततो अष्टमे दिवसे निर्विकृतिकंनवमेकायोत्सर्गः कृतेऽपियदिनस्थितंग्लानत्वं,ततोदशमे दिवसे योगनिक्षेपः । गतस्तृतीयोऽपि भङ्गः । सम्प्रतिचतुर्थमाह-तिन्नि तिगा इत्यादि, त्रयस्त्रिकानटथ दिवसा इत्यर्थः अन्तरिता एकान्तरिताश्चतुर्थेभङ्गे कर्तव्यास्तयाप्यतिष्ठतिग्लानत्वेयोगस्य निक्षेपणम् । अत्रापीयंभावना-एकस्मिन्दिवसेकायोत्सर्गोद्वितीये दिवसेनिर्विकृतिकं,तृतीयेदिवसेकायोत्सर्गश्चतुर्थे निर्विकृतिकं, । एवमेकान्तरितेकायोत्सर्गविकृतिके नवदिवसान् यावत्कारयेत्तथाप्यतिष्ठति ग्लानत्वे दशमेदिवसेयोगोनिक्षिप्यते, यत्रापिप्रतिदिवसंग्लानप्रयोगस्यालाभेतत्परिवासयितव्यंभवति, ।तत्रापि योगो निक्षिप्यते, अथ कदाचित् क्षीरादिभिग्लानस्य प्रयोजनमजायत, तदा स्वग्रामे तन्मार्गयितव्यं, असति स्वक्षेत्रे परग्रामादप्यानतेव्यं, तथाप्यसति क्षेत्राद्वहिरपि गत्वा समानेतव्यम् । अथ कदाचित्तत्राप्यलाभस्तर्हि व्रजिकामपिग्लानं गमयेत् । पतितं द्वितीयं व्रजिकाद्वारं । तत्रेयं यतना[भा.२१३३] वइया अजोगिजोगीव अदढ अतरंगस्स दिजंते ।
निव्विगिकमाहारो, अंतरविगीतीए निक्खिवणं ।। वृ-जिकायां गोकुले गन्तुकामस्य अंतरंगस्सत्ति ग्लानस्य वा ग्लानत्वेन विना दुर्लभस्य द्वितीया दीयन्तेअयोगवाहिनस्तदबावेयोगवाहिनीवातत्राहारो निर्विकृतिकमन्तराच कार्योत्सर्गः,अथलभ्यते प्रतिदिवसं विकृतिस्तदायोगस्य निक्षेपणमत्रेयंभावना-ग्लानस्यदृढस्यवाव्रजिकागन्तुकामस्यद्वितीया [साधवो] दीयन्तेअयोगवाहिनः । अथतेनसन्तितदाअनागाढयोगवाहिनोदातव्यस्तत्रगता विकृतीः परिहरन्ति निर्विकृतिकमाहारमाहारयन्ति, अथ न लभ्यते दिने दिने निर्विकृतिकं तदान्तरान्तरा विकृतिग्रिहणाय कायोत्सर्ग कुर्वन्ति । अथ दिने दिने विकृतिरेव प्रायो लभ्यते नान्यत्तदा योगस्तेषां निक्षिप्यते ।सम्प्रति निर्विकृतिकमाहारमाहारयतां विधिमाह[भा.२१३४] . आयंबिलस्सऽलंभेचउत्थमेगंगयं चतक्कादि ।
असतेयरमागाढेनिक्खिवनुद्देस तहचेव ।। . वृ- यद्याचाम्लवारके आचाम्लप्रायोग्यं न लभ्यते, तदा तद्वारकेऽभक्तार्थे कुर्वन्ति, अथ न शन्कुवन्त्यभक्तार्थ कर्तु तदा एकाङ्गिकं तकमाहारयन्ति तक्रायामाम्लं कुर्वन्तीत्यर्थः, आदिशब्दात् एकाङ्गिकं काष्टमूलमाहारयतीति द्रष्टव्यम्, अथ सन्त्यनागाढयोगवाहिनो द्वितीयास्तत इतरे आगाढयोगवाहिनो द्वितीया दीयन्ते, तत्र यदि तेषां प्रायोग्यं लभ्यते, ततः सुन्दरमथ न लभ्यते, केवलं तत्रक्षीरादीनिलभ्यन्ते, तदा योगोनिक्षिप्यते, निक्षेपानन्तरंचपुनरुद्देशस्तथैव यथाऽधस्ताद्भणितम्; [भा.२१३५] जति निक्खिप्पइदिवसे, भूमीएतत्तिए उवरिवड्ढे ।
अपरिमियं तुद्देसो, भूमीएतओ परंउकमसो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org