________________
उद्देशकः-४, मूल - ११७, [भा. २११५]
महाकल्पश्रुतेद्वादशवर्षाण्युत्कृष्टास्वाध्यायभूमिः । अत्राभवव्यवहारमाह[भा.२११६] संकंतो यवहंतो काउस्सग्गंतुच्छिन्नउवसंपा।
अकयम्मी उस्सग्गोजा पढतीतंसुयक्खंधं ।। वृ- योगं वहन् गणान्तरमन्यत्र संक्रामन् च्छिन्ना उपसम्पदिदानीमिति प्रतिपत्यर्थं कायोत्सर्ग कृत्वा व्रजेत् । अथ कथमपितस्य विस्मृतंभवतिततआचार्येणस्मरयितव्योयथाकुरुकायोत्सर्गमथद्वयोरपि विस्मरणतः सोऽकृते कायोत्सर्गे याति, तर्हि यावत्सोऽन्यत्रगतोपितं श्रुतस्कन्धं पठति ।। [भा.२११७] तालाभोउद्दिसणायरियस्स जइवहइ वट्टमाणिसे ।
अवहंतंमि उलहुगा, एस विही होइअनागाढे ।। वृ- तावत् यत्किमपि स लभते सचित्तादिकं समस्तोऽपि लाभउद्देशनाचार्यस्य येनोद्दिष्टः स श्रुतस्कन्धस्तस्य पूर्वाचार्यस्याभवति, । केवलं यदिसपूर्वतन उद्देशनाचार्यः से तस्यान्यत्र गतस्य सतो वर्तमानांसारां वहति, अथस तस्याकृतकायोत्सर्गस्य सतोऽन्यत्र गतस्य सारां न वहति । ततस्तस्मिन् सारामवहत्युद्देशनाचार्ये प्रायश्चित्तंचत्वारो लघुकाः । यच्चसचित्तादिकंस प्रातीच्छिको लभते तदपिन तस्या भवति, एषोऽनन्तरोदितो विधिर्भवत्यनागाढेयोगे ।सम्प्रत्यागाढेभिधित्सुरिदमाह[भा.२११८] आगाढो विजहन्नो कप्पिगकप्पादितिन्नहोरता ।
उक्कोसी छम्मासे विवाहपन्नत्ति आगाढे ।। वृ- आगाढोऽपि योगो जघन्यस्त्रयोऽहोरात्रा तथा कल्पिका कल्पिकादेरुत्कर्षत आगाढयोगे षण्मासान् यथाव्याख्याप्रज्ञप्रेः पञ्चमाङ्गस्य अत्राभवद्व्यवहारमाह[भा.२११९] तत्थवि काउस्सगं आयरियविसज्जियम्मिच्छिन्ना उ ।
संसरमसंसरंवाअकएलभंतोभूमीए ।। वृ- अत्राप्यागाढयोगे पूर्णेऽपूर्णे वा आचार्येण यस्य सकाशे योगं प्रतिपन्नस्तेन सूरिणा विसर्जिता विसर्जने कृते च्छिन्ना उपसम्पदिति ज्ञापनार्थं संस्मरन् कायोत्सर्गे कुर्यात् । असंस्मरन् वा आचार्येण स्मरयितव्यः । तत्र भूमौ स्वाध्यायभूमावागाढे योगेऽपरिपूर्णे आचार्येण विसर्जितः । कृते कायोत्सर्गे यदिव्रजति तर्हिसव्रजन् यत्किमपि लभते सचित्तादिकं तत्तस्यैवाभवति, नोद्देशनाचार्यस्य, अथाकृते कायोत्सर्गे व्रजति । तर्हि यावदन्यत्र गतोऽपितं श्रुतस्कन्धं पठति, सारां चोद्देशनाचार्यस्तस्य करोति, तावद्यत् किमपिससचित्तादिकमुत्पादयति, तत्सर्वमुद्देशनाचार्योलभतेन पुनरितरः.. [भा.२१२०] तीरिय अकए उगतेजा अन्नंन पठए उतापुरिसे। .
आसन्नाओ नियत्तइ दूरगतो वावि अप्पाहे ।। वृ-तीरिते समाप्ति नीते आगाढे योगे श्रुतस्कन्धेच भक्तिपुरस्सरमाचार्यादिक्षमणया तोषिते यदि कथमपिगमनवेलायामनाभोगतोऽकृतेकायोत्सर्गेयाति, तर्हिसगतःसन्यावदन्यं पठतिपठितुमारभते, तावद्यत्किमपि लभते, तत्पूर्वस्याचार्यम्याभवति न तस्य, तस्य चास्मरणतोऽकृते कायोत्सर्गे गतस्येयं सामाचारी, यदिआसन्नेप्रदेशेगत्वास्मृतंततआसन्नान्निवर्तते । अथदूरंगतेन स्मृतंतर्हितत्रयंसाधर्मिक पश्यति, तस्यसमीपेकायोत्सर्गंतुकृत्वा अप्पाहेतिसंन्देशंकथयति, । यथा मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति ।।
[भा.२१२१] अवितोसवितेपाहुडेनितेच्छेदो पडिच्छेचउगुरुया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org