________________
व्यवहार
- छेदसूत्रम् - २- ४ /११७ वृ-प्रथमे चरमे च कारणे नियमेन निर्गमे अनुज्ञा भवति । शेषेषु कारणेष्वनाभोगतो निर्गमे भवत्याभवद्व्यवहारश्च तत्र प्रथमचरमानां प्रथमचरमकारणोपेतानां निर्गमे इयं वक्ष्यमाणा तत्र यतना भवति । तामेवाह[भा. २१११]
८८
सरमाणे उभए वी काउस्सग्गं तु काउ वच्चेज्जा । पहले दोपहवि ऊ आसन्नातो नियट्टेज्जा ।।
वृ-प्रथमे चरमे च कारणे समुपजाते उभयस्मिन्नप्याचार्ये प्रतीच्छके च विधिस्मरति च्छिन्नोपसंपदिति ज्ञापनार्थं कायोत्सर्गं कृत्वा स प्रातीच्छको व्रजेत् अथ प्रातीच्छिकस्य विस्मृतं ततः आचार्येण स्मारयितव्यं यथा कुरु च्छिन्नोपसंपन्निमित्तं कायोत्सर्गमिति अथानाभोगतो द्वयोरपि पण्हुट्ठमिति एकान्तेन विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कार्योत्सर्गे सम्प्रस्थितो यदासन्ने प्रदेशे स्मरति, तदासन्नात् निवर्तेत, निवृत्त्य च कायोत्सर्गो विधेयः ।।
[भा. २११२]
दूरगएणं उ सरिए साहम्मि ठु तस्सगासम्म । काउस्सग्गं काउं जं लद्धं तं च पेसेइ ।।
वृ- अथ दूर गत्वा स्मृतवान् ततो दूरगतेन स्मृतेन साधर्मिकं दृष्ट्वा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, सन्देशश्च प्रेषणीयः, आचार्यस्य यथा तदानीं युष्मत् समीपे कायोत्सर्गकरणं विस्मृतमिदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति कायोत्सर्गं च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति
[भा. २११३]
पढमचरमाण एसो निग्गमनविही समासतो भणितो । एतो मज्झिल्लाणं ववहारविहिं तु वच्छामि ||
वृ- प्रथमचरमानां प्रथमचरमकारणोपेतानां एव निर्गमविधिः समासतो भणितः । इत ऊर्ध्वं मध्यमानां मध्यमकारणोपेतानां व्यवहारविधिनाभवद्यवहारविधिं प्रायश्चित्तव्यवहारविधिं च वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति
[ भा. २११४ ]
Jain Education International
सज्झायभूमि वोलंते जोए छम्मास पाहुडे । सज्झाय भूमिदुविहा आगाढा चेव नागाढा ।।
वृ- स्वाध्यायभूमिं प्रतिपन्नः सन् तामनिक्षिप्य यो व्यतिक्रामति तस्मिन् आभवद्व्यवहार उच्यते । अथ स्वाध्यायभूमिरिति किमभिधीयते । उच्यते- प्राभृत्तं नाम यदिष्टः श्रुतस्कन्धस्तस्मिन् यो योगः स स्वाध्यायभूमिः स चामाढयोगमधिकृत्योत्सर्गतः षण्मासाः । एतदेव वैतन्येनाहस्वाध्यायभूमिर्द्विविधा योगो द्विविध इत्यर्थः । आगाढ़ा अनागाढा च
[ भा. २११५]
जहन्नेन तिन्निदिवसा अन्नागादुकोस होइ बारस उ ।
एसा दिठीवाए महकप्यसुयम्मि बारसमा ।।
वृ- अनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसा यथा नन्द्यादिकस्याध्ययनस्य उकर्षतो भवति द्वादशवर्षाणि । एषा द्वादशवर्षप्रमाणा उत्कृष्टा स्वाध्यायभूमिर्दृष्टिवादे सापि दुर्मेधसः प्रतिपत्तव्या, प्राज्ञस्य तु वर्षं, उक्तं च
अनागाढो जहनेणं, तिन्निदिवसा उक्कोसेण वरिसं । जहा दिठिवायस्स बारस वरिसाणि दुम्भेहस्सत्ति ।।
For Private & Personal Use Only
www.jainelibrary.org