________________
उद्देशक :
:- ४, मूल- ११७, [भा. २१०४]
८७
तेषामगिलया निर्जराबुद्ध्या पूरयति न परोपरोधावित्तनिरोधेन । अथ तेषां प्रतीच्छिकानां कियन्तं कालं
प्रतीच्छको भवति । तत्राह[ भा. २१०५ ]
निठिय महल्ल भिक्खे, कारण उवसग्गागारियपडिबंधो । पढमचरिगाई मोत्तुं, निग्गम सेसेसु ववहारो ।।
वृ- निष्ठितं नाम येन कारणेनोपसंपन्नस्तत्सूत्रार्थलक्षणं कारणं निष्ठितं समाप्तं ततो निर्गच्छति । महल्लत्ति महती सूत्रमण्डली भक्तमण्डली वा तत्र सूत्रमण्डल्यां चिरेणालापक आगच्छति भक्तमण्डल्यां महत्यां भागागतं तत्र यथान्ये साधवोऽध्यासते तथा तेनाप्यध्यासितव्यमनध्यासीतश्च निर्गच्छति, I तथा दुर्लभं तत्र क्षेत्रे भैक्षं तत्र यथान्ये साधवो यापयन्ति, तथा तेनापि प्रतीच्छितेन यापनीयम् यापनं चासहमानः कोऽपि निर्गच्छति । कारणमशिवादिकं तस्मिन् समुत्पन्ने सर्वैर्निर्गन्तव्यम् । उपसर्गा द्विविधा दंशमशकादयः स्वजनादयश्च, तत्र दंशमशकादिषूपसर्गेषु सर्वैर्निर्गन्तव्यं स्वजनादिकृतेषु तूपसर्गेषु गच्छसाधवो निर्गच्छन्ति वा न वा, प्रतीच्छितेन पुनरवश्यं निर्गन्तव्यमू । आगारीप्रतिबन्धो नामयत्रागार्या विषये | आत्मपरोभयसमुत्था दोषास्तत्रावश्यं तेन निर्गन्तव्यम् । अत्रप्रथमं चरमं कारणं मुक्त्वा शेषेषु कारणेषु निर्गमे आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च स यथा भवतिं तावद्वक्ष्ये, एतदेव व्याचिख्यासुराह [भा. २१०६]
संमत्तंमि निग्गमो तस्स होति इच्छाएं । मंडल मल्ल भिक्खे, जह अन्ने तह जावए ।।
वृ- यस्य श्रुतस्यार्थेनोपसम्पन्नस्तस्मिन् समाप्ते श्रुते तस्य निर्गम इच्छया भवति, यदि प्रतिभासते तर्हि तिष्ठति, नो चेन्निर्गच्छति; तथा महत्या भक्तमण्डल्यां दुर्लभे च भैक्षे यथान्ये साधवो यापयन्ति, तथा सोऽपि यापयेत् । यापनां चासहमानः कोऽपि गच्छेत् सूत्रमण्डल्यामपि चिरेणालापमागच्छन्तमवेक्ष्यमाणस्त्वरया कोऽपि निर्गच्छति
[भा. २१०७]
कारणे असिवादिम्मि सव्वेसिं होइ निग्गमो । समादी उवसग्गे सव्वेसिं एवमेव उ ।।
वृ- अशिवादौ कारणे समुत्थिते सर्वेषां भवति निर्गमः । एवमेव अनेनैव प्रकारेण दंशादिके दंशमशकादिके उपसर्गे समुपस्थिते एवमेव सर्वेषां भवति निर्गमः ।।
[भा. २१०८ ]
नील्लएहि उवसग्गो, जइ गच्छंति नेतरे ।
निग्गच्छति ततो एगो, पडिबंधो वाविभावतो ।।
बृ- निजकैरपि स्वजनैरप्युपसर्गे क्रियमाणे यदि इतरे गच्छसाधवो न गच्छन्ति ततः स एक एकाकी प्रातीच्छिको निर्गच्छति । यदि वा भावतः स्वजनेषु महान् प्रतिबन्धस्ततो निर्गच्छति ।। आयपरोभयदोसेहिं जत्थं गारीए होज्ज पडिबंधो ।
[भा. २१०९]
तत्थ न संचिट्टेज्जा, नियमेन उ निग्गमो तत्थ ।।
वृ- यत्रात्मपरोभयदोषैरगार्या उपरि भवेत् प्रतिबन्धस्तत्र न संतिष्ठेत् । किन्तु नियमतस्तत्थेति प्राकृतत्वात् तस्मादित्यर्थे तस्मात्स्थानान्निर्गमः ।
[भा. २११० ]
Jain Education International
पढमचरिमेसु नुन्ना, निग्गम सेसेसु होइ ववहारो । पढम चरिमाण निग्गम, इमाइ जयणा तहिं होइ ।।
For Private & Personal Use Only
www.jainelibrary.org