________________
उद्देशक :- ४, मूल - ११७, [भा. २०९४]
८५
हृष्टेनागवेषणेऽपि आस्तां परस्परनिश्रायमित्यपिशब्दार्थः न लभते गुरुः शैक्षान् किमुक्तं भवति ते तथा विपरिणताः सन्तो यत्सचित्तादिकमुत्पादयन्ति तदाचार्यो न लभते । अथ कार्येकस्मिन्नपि व्याकुलीभवनत आचार्येण तेऽतरन्तो न गवेषितास्तर्हि यद्यपि ते विपरिणता अपि यत्ते सचित्तादिकमुत्पादयन्ति । तत्ते न लभन्ते किन्तु लभते आचार्यः । [भा. २०१५]
लध्धुं अविप्परिणते कर्हिति भावंमि विष्परिणयभ्मि । इति मायाए गुरु तु सचित्तादेसगुरुयावा ।।
वृ- यदि अविपरिणते भावे सचित्तादि लब्ध्वा विपरिणम्य कथयन्ति । इदं विपरिणते भावेऽस्माभिर्लब्धमिति, तदा मायया ते उपसंम्पदं लोपयन्तीति मायानिष्पन्नं प्रायश्चित्तं गुरुको मासः, अचित्ते समुत्पादिते तत्प्रत्ययमुपधिनिष्पन्नं प्रायश्चित्तं, सचित्ते समुत्पादिने तत्प्रत्ययं चतुर्गुरुकमादेशान्तरेण प्रायश्चित्तमनवस्थाप्यम् । तत आचार्यो निष्कारणं यदि तान्न गवेषयति तदा तस्य प्रायश्चित्तं मासलघु[भा. २०१६]
सुहदुक्खिया गविट्टा सो चेव य उग्गहो य सीसा य । विप्परिणमंतु मा वा अगविठेसुं तु सो लभते ।।
बृ- ते सुखदुःखिताः सुखदुःखोपसम्पन्नका आचार्येण गवेषिताः । स एव चावग्रहो वर्ततेऽद्यापि विपरिणामाकथनांत् ते शिष्या यदि विपरिणमन्ति यदि वा मा विपरिणमन्तु तथापि यत्तैरुत्पादितं सचित्तादि तदाचार्यो लभते, न पुनस्तत्तेषामिति । अथ न गवेषिता आचार्येण विपरिणताश्च ते ज्ञातास्ततस्तैरगवेषितैर्विपरिणतैश्च यल्लब्धं सचित्तादि तत्स आचार्यो न लभते किन्तु तत्तेषामेव ।। विप्परिणयमि भावे, लद्धं अम्हेहिं बेंति जइ पुट्ठा ।
[ भा. २०१७ ]
पच्छा पुनो वि जातो लभंति दोच्चं अनुन्नवणा ।।
वृ- यदि पुनस्ते पृष्टाः सन्तो ब्रुवते एतद्विपरिणते भावेऽस्माभिर्लब्धं तत्तेषामेव नाचार्यस्य । अथ पश्चात् पुनरपि भावो जातो द्वितीयमपि वारमवग्रहस्यानुज्ञापना कर्तव्या । तदा तथारूपाद्भावात् जातादारतो यत्ते लभन्ते तदाचार्यस्य भवति न तेषामिति ।।
[भा. २०१८ ]
आगयमनागयाणं उउबद्धे सो विही उ जो भणितो ।
अद्धाणसीसगामेवि एस विहीए ठिए विदेसं ।।
वृ- य एष अनन्तरमुक्तो विधिःस ऋतुबद्धे काले आगतानां चरिकातो निवृत्तानामनागतानां चरिकाप्रविष्टानामवसेयः एष पुनर्वक्ष्यमाणो विधिर्विदेशं प्रस्थिते उपलक्षणमेतत् स्वदेशेऽपि दूरं गन्तुकामे अध्वशीर्षकग्रामे स्थिते वेदितव्यस्तमेवाह
[ भा. २०९९]
सत्थेणं सालंब गयागयाण इह मग्गणा होइ ।
तत्थ नत्थ गिलाणे लहु गुरु लहुगा चरिम जाव ।।
वृ- सार्थेन सह विदेशं स्वदेशमपि वा दूरं गन्तुकामाः सालम्बं गता यथा यदि अध्वशीर्षकग्रामे परतो गमनाय सार्थं लप्स्यामहे ततो यास्यामः । अथ न लप्स्यामहे तर्हि प्रत्येष्याम उदन्तं च परस्परं वक्ष्यामः एवं ये सार्थेन सहाध्वशीर्षके ग्रामे गताः, ये च न गतास्तेषामिह आभवत्यनाभवति सचित्तादौ विषये मार्गणा वक्ष्यमाणा भवति, तथा तत्रान्यत्र च ग्लाने चतुर्भङ्गी भवति । तद्यथा - अन्यत्राध्वशीर्षके ग्रामस्थितानां ग्लानो न तत्राचार्यपार्श्वे इति प्रथमः, । आचार्यपार्श्वे न तेषामिति द्वितीयः, द्वयानामपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International