________________
व्यवहार- छेदसूत्रम् - २ - ४ / ११६ मू. (११६) चरिया नियट्टे भिक्खू जाव चउराय पंचरायातो थेरे पासेज्जा सच्चैव आलोयणा सच्चेव पडिक्कमणा । सच्चेव उग्गहस्स पुव्वाणुन्नवणा चिठ्ठति । अहालंदमवि उग्गहे ।
मू. (११७) चरिया नियट्टे भिक्खू परं चउराय पंचरायातो थेरे पासेज्जा । पुनो आलोएज्जा पुनो पडिक्कमेज्जा पुनो च्छेयस्स परिहारस्य वा उवठाएज भिक्खुभावस्स अठाए । दोच्चंपि उग्गहे अनुन्नवेयव्वे सिया । अनुजाणह भंते मितोग्गहं अहालंदं धुवं निययं निच्छइयं वेउट्टियं ततो पच्छा कायसंफासं ।
वृ- अस्य च सूत्रद्वयस्याप्यर्थः स एव यश्चरिकाप्रविष्टसूत्रद्वयस्य यद्येवं किमर्थमनयोरुपादानं चरिकाप्रविष्टभूत्राभ्यामेव गतार्थत्वात्तथा हि-यैव चरिकाप्रविष्टानां समाचारी सैव चरिकातो निवृत्तानामपीति, सत्यमेतत्, केवलमनुच्चारिते निवृत्तसूत्रद्वये यैव चरिकाप्रविष्टनां सामाचारी सैव चरिकातो निवृत्तानामपीति न लभ्यते । सूत्रे ऽनुपात्तत्वात् किन्त्वन्यत् किमपि कल्पेत ततः कल्पनान्तरं माभूदिति निवृतसूत्रद्वयमिति, सूत्रपञ्चकसंक्षेपार्थः । सम्प्रति भाष्यकृद्विषमपदविवरणं चिकीर्षुः प्रथमतो यच्चरिकाप्रविष्टाद्यसूत्रेऽभिहितं जाव चउराया पंचरायातो थेरे पासेज्जा इति तद्व्याख्यानार्थमाहपंचाहग्गहणं पुन बलकरणं होइ पंचहिं दिनेहिं । एगदुगतिन्निपनगा आसज्ज बलं विभासाए ।।
[भा. २०७३]
वृ- सूत्रे जाव चउराय पंचरायाउ इत्यत्र यत् पंचाहग्रहणं पुनर्विशेषतः कृतमाचार्येण पुनःशब्दो विशेषे तत् पञ्चभिर्दिनैः बलकरणं भवतीति ज्ञापनार्थं । उक्तं च- एगपणगद्धमासं सठी पुन मनुयगोणहत्थीणमिति । अथ पञ्चमिर्दिनैः कथमपि वलं न भवतीति ततो द्वितीयमपि पञ्चाहं यावत्तथा चाह-एक द्वित्रिपञ्चका दिवसानां बलमाश्रित्य विभाषया विकल्पेन एकं वा द्वौ वा त्रीन्वा यावदित्येवंरूपेण सूत्रे चेकं पञ्च रात्रग्रहणमुपलक्षणं व्याख्यानतो विशेषप्रतिपत्तिरतो न भाष्यसूत्रयोर्विरोधः ।
सम्प्रति सच्चेव आलोयणेत्यादि पदव्याख्यानार्थमाह
[भा. २०७४]
उपसंपजमाणेण जा दत्ता लोयणा पुरा । अवसन्ने हि आगम्म, पडिक्कंतो उभावतो ।। जायान्नवा पुव्वं, या साहम्मि उग्गहे । संभावणाए सालंदजा भावो अनुवत्तती ।।
[ भा. २०७५ ]
वृ-या अन्यस्माद्द्वणादागतेनोपसम्पद्यमानेनालोचना पुरा दत्ता सैव तिष्ठति । यश्च पूर्वमवसन्नेभ्य आगम्य भावतः प्रतिक्रान्तस्तदेव प्रतिक्रमणं तिष्ठति । यावश्च पूर्वमन्यस्माद्वणादागतेन साधर्मिकावग्रहस्यानुज्ञापना कृता, सैव तिष्ठति । अहालन्दमवीत्यव योऽपिशब्दस्तस्यार्थः । सान एषा च केवलं यावत् काल उक्तस्तावन्तं किन्तु चिरमपि कालं यावद्भावोऽधिकृतगच्छस्थापयितयाऽनुवर्तते तावत्सैवावग्रहस्याज्ञापना तिष्ठति, यथालन्दमपिइत्यन्तर्दीपकं ततो यथालन्दमपि सैवालोचना तदेव च प्रतिक्रमणमपि द्रष्टव्यय् । अधुना द्वितीये चरिकाप्रविष्टसूत्रे यदुक्तं परं चउराय पंचरायातो इत्यादि तद्वयाख्यानार्थमाह
[भा. २०७६ ]
८०
परति परिणते भावे परब्भूतो उसो पुनो । नवोवसंपयाएव तत्था लोए पडिक्कमे ।।
वृ- परं चउराय पंचरायातो । इत्यत्र परमिति व्याख्यानतो विशेषप्रतिपत्तिस्ततोऽयमर्थः । परिणते गच्छान्मया निष्क्रमितव्यमित्येवं परिणते भावे अत एव गच्छात्परिभूतः सन् चतुरात्रात्यञ्चरात्राद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org