________________
उद्देशकः-४, मूल- ११३, [भा. २०७२] ,
७९ अभिनिचारिकां चरितुं यत्पुनस्तत्र स्थविरैरवितीर्णेऽननुज्ञाते एकतोऽभिनिचारिकां चरन्ति । तन्निमित्तं से तेषां प्रत्येकमन्तरातं अन्तरा नाम तस्मात्स्यानादग्रतिक्रमणंच्छेदः परिहारो वा उपलक्षणमेतदन्यद्वा तपः-प्रायश्चित्तमिति
मू.(११४)चरियापविटेभिक्खू जावचउरायपंचरायातो थेरापासेज्जा सच्चेव आलोयणा, सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुव्वाणुनवणा चिट्ठति अहालंदमवि उग्गहे ।।
वृ-चरिकानिमित्तंये व्रजिकादिषुप्रविष्टास्तेषामेकतरंपरिगृह्येदमुच्यते-चरिकाप्रविष्टो भिक्षुर्यावत् परिमाणावधारणे ततोऽयमर्थः । एकरात्रं द्विरात्रं चतुरात्रं पञ्चरात्रं यावत् व्याखानतो विशेषप्रतिपत्तिरिति द्वितीयं तृतीयमपिपञ्चाहं यावदितिद्रष्टव्यम् । स्थविरान् पश्येत्कुत्र पश्येदिति चेत् उच्यतेअभिनिचारिकां गन्तुमुत्कलापितेनाचार्येण यत्र सन्देशको दत्तस्तत्र स्थविरैः सह मिलितानां सैवालोचना तिष्ठति, या अन्यस्मात् गणादागतेनोपसम्पद्यमानेनवितीर्णा तदेव च प्रतिक्रमणं यदवसन्नादागत्य तस्मिन् गच्छे उपसम्पद्यमाने तस्मात् स्थानान् प्रतिक्रान्तं सैव चावग्रहस्य सैव पुर्वानुज्ञापना तिष्ठति । या अन्यस्मात् गणादागतेनोपसम्पद्यमानेन साधर्मिकाव्रहस्यानुज्ञापना कृता यथालन्दमपि यताकालमपि अपिशब्दोऽत्र संभावने न केलवं यथाकालं किन्तु चिरमपि-यथाकालं यावत्ततो गच्छात्तस्य भावो न विपरिणमति तावदवग्रहे अवग्रहस्य सैव पूर्वा अनुज्ञापना तिष्ठति । एतच्चान्तर्दीपकमतो यथालन्दमप्पालोचनाप्रतिक्रमणंच द्रष्टव्यम् ।।
मू. (११५) चरियापविढे भिक्खू परं चउरायपञ्चरायाओ थेरे पासेज्जा पुनो आलोएज्जा पुनो पडिक्कमेजा पुनो चेयपरिहारस्स उवट्ठाएजा । भिक्खुभावस्स अट्ठाए दोच्चंपि ओग्गहे अनुन्नवेयव्ये सिया कप्पति से एवं वदित्तए अनुजाणह । भंते! मिओग्गहंअहालंदंधुवं नितियं निच्छइयं, वेउट्ठियं, तओपच्छाकायसंफासं ।।
वृ-चरिकाप्रविष्टो भिक्षुः परं चतूरात्राद्वा अत्रापि व्याख्यानतो विशेष प्रतिपत्तिस्त इदं द्रष्टव्यं यदि तस्य भावो विपरिणातो यथा कोऽत्र स्थास्यतीति ततश्चतू रात्रात् पञ्चरात्राद्वा आरतः परतो वा स्थविरान्पश्येत्पुनरपि च तस्य भावो जातो यथा तिष्ठाम्यत्र न चैवोपसम्पदा तथा प्रयमोपसम्पदीव पुनरालोचयत् । पुनः प्रतिक्रामेत् पुनः च्छेदस्य पहिरस्य वा उपतिष्ठेत् । किमुक्तंभवति? विपरिणते अविपरिणतेवाभावे यत् किञ्चिदापन्नः प्रायश्चितस्थानंतस्मिन् आलोचतेय आचार्येणच्छेदः परिहारो वा निर्दिष्टस्तंसम्यक श्रद्धाय तस्य करणार्थअभ्युत्तिष्ठेत् ।। भिक्षुरुपपातस्य आज्ञाया अर्थाय पाठान्तरं भिक्षुभावस्य । भिक्षुत्वस्यार्थाय । मे यथावस्थितं भिक्षुत्वं भूयादित्येवमर्थः द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् ।कथमित्याह-अनुजानीत ।भदन्तपरमकल्याणयोगिन मितमेवमवग्रहग्रहणं गमनादीनामुपलक्षणंमितंगमनं । मितमवस्थानंमितस्थाननिषीदनत्वग्वर्तनादिअनुजानीत । यथालन्दं यथाकालध्रुवं यदवश्यं कर्तव्यं नियतं यावन्नावधावाभि तावदवश्यमहापनीयं । नित्यं यावत्सहायान्न लभे तावदवश्यमनुष्ठेयं । तथा व्यावृत्तं किमुक्तं भवति ? व्यावृत्य यद्बहुधा उपपातप्रतीच्छनं तत् अनुजानीत ततो गुरुणा अभ्युपगते कायस्य क्रमयुगललक्षणस्य शिरसा संस्पर्श करोति । अथवा कृतिकर्मादिष्वागमनेनिर्गमनेचयः कायसंस्पर्शस्तमप्यनुजानीत । एवं नियट्टेविदोगमाइति । एवममुना प्रकारेण यथा चरिकाप्रविष्टौ द्वौ गमावृक्तो द्वे सूत्रेऽभिहिते ।तथा चरिकानिर्वत्तेपि द्वौ गमौ वक्तव्यौ ।
तौ चैवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org