________________
व्यवहार - छेदसूत्रम् - २- ४ / ११२ जो जे होत महतो - तस्साणादी न हावेमि ।।
वृ- रात्निकस्य रत्नाधिकस्य गणो अवमस्य गीतार्यस्य निश्रया विहरति, अहमपि तन्निश्रया विहरामि । अपि च तस्मिन् गणे यो येन गुणेन तपःप्रभृतिना महितस्तस्याज्ञादि आज्ञासमीपभवनं वचननिर्देशं च न हापयामि सम्यक्करोमीतिभावः ।
७८
मू. (११३) बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचारियं चारए; कप्पइ नो ण्हं कप्पइ थेरे अनापुच्छित्ता एगयतो अभिनिचारियं चारए, जावण्हं कप्पइ ण्हं थेरे आपुच्छित्ता एगयतो अभिनिचारियं चारए । थेरा य से वियरेज्जा एव ण्हं कप्पइ एगयओ अभिनिचारियं चारए; थेरा य से नो वियरेज्जा एव हं नो कप्पइ एगयओ अभिनिचारियं चारए । जं तत्थ थेरेहिं अविइन्ने एगयओ अभिनिचारियं चरन्ति से अंतरा छेए वा परिहारे वा ।।
वृ- अथास्य सूत्रस्य सम्बन्धमाह
[ भा. २०७१ ] इति खलु आणा बलिया आणासारो य गच्छवासोउ । मोत्तु आनपाणुं सा कज्जा सव्वहिंजोगे ।।
वृ- अनन्तरसूत्रे इदमुक्तम्, 'आणाउववायवयणनिद्देसे चिठिस्सामीति' तत इति एवमुक्तेन प्रकारेण खल्वाज्ञा गुरुणां बलिका वलवती आज्ञासारश्च गुर्वाज्ञाकारणप्रतिपत्तिसारक्ष्च गच्छवास इत्यावेदितं । तत आनप्राणौ प्राणानौ मुक्त्वा सा गुर्वाजा सर्वत्र योगे व्यापारे कर्तव्येति । एतदर्थप्रतिप्रादनार्थ चाधिकृतं सूत्रमिति सूत्रसम्बन्धप्रकारान्तरेण सम्बन्धमाह
[भा. २०७२ ]
अहवा तदुभयहेउं, आईन्नो सो बहुस्सुय गणो उ ।
ओस्सूर भिक्खखेते चेइयाणं चारिया जोगो । ।
वृ- अथवेति प्रकारान्तरोपदर्शने स बहुश्रुतस्य गणस्तदुभयहेतोः सूत्रार्थतदुभयनिमित्तं बहुभिः प्रातीच्छिकैराकीर्णः समाकुलस्तथा तस्मिन् क्षेत्रे उत्सूरे भिक्षावेला चिरंच परिभ्रन्यते लभ्यते च रुक्षं भैक्षं ततः केचित् रुक्षेण दुर्बलीभूताः क्षपका वा दुर्बला अभवन् ग्लानोत्यिता वा सीदंति । एवं तेन क्षेत्रेण त्याजितानां केषांचित चरिकायोगो भवति, ततश्चरिकायोगप्रतिपादनार्थमधिकृतं सूत्रमेवमनेन सम्बन्धेनायातस्यास्य व्याख्या । बहवस्त्रिप्रभृतिकाः सांभोगिका इच्छेयुरेकतः सहिता इत्यर्थः । अभिनिचरिका अभिमुख्येन नियता चरिका सूत्रोपदेशेन बहिर्व्रजिकादिषु दुर्बलानामाप्यायननिमित्तं पूर्वा है काले समुत्कृष्टं समुदानं लब्धुं गमनं अभिनिचरिका तां चरितुं समाचरितुं कर्नमित्यार्थः एवमेतेषामिच्छतां कल्पते, नो हमिति वाक्यालङ्कारे, स्थविरानाचार्याननापृच्छय एकतः संहितानामभिनिचारिकां चरितुं यदि पुनः स्थविरान् अनापृच्छय व्रजन्ति ततः पायश्चित्तं मासलघु स्वच्छन्दचारित्वात् यावद् ग्रहणादेवं परिपूर्णः पाठो द्रष्टव्यः ।। " कप्पतिहं थेरे आपुच्छित्ता एगयतो अभिनिचारियं चारए । थेरा य से वियरेज्जा एव ण्हं कप्पेइ एगयतो अभिनिचारियं चारए; थेरा य से नो वियरेजा एव पहनो कप्पइ एगयतो अभिनिचारियंचारए । जे तत्थ थेरेहिं अवितिन्ने एगयतो अभिनिचारिय चरंति से अंतरा च्छेदे वा परिहारे वा ।।” अस्य व्याख्या-यत एवं स्वच्छन्दनचारितायां मासलघु तस्मान् कल्पते ण्हमिति पूर्वयत् स्थविरानापृच्छ्य एकतो अभिनिचारिकां चरितुं, आपृच्छायामपि कृतायां यदि स्थविरा वितरेयुरनुजानीयुरेन हमिति प्राग्वत् कल्पते । अभिनिचारिकां चरितुं स्थविराश्च नवितरेयुर्नानुजानीयुः प्रत्यपायं पश्यन्तः प्रयोजनाभावतो वा ततो न कल्पते । एकतो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International