________________
उद्देशक : - ४, मूल - ११७, [भा. २०७६ ]
८१
परत आरतो वा स्थविरान् पश्येत् । भावश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत ततः स पूनर्भूयो नवोपसम्पदीव तत्प्रथमतयोपसम्पदीव तत्र तेषु स्थविरेषु पार्श्वे आलोचयेत् प्रतिक्रामेच्च ।। [भा. २०७७ ] जइ पुन किंवावन्नो तत्थ उ आलोइउं उवठाति ।
विप्परिणयम्मि भाव, एमेव अविप्परिणयम्मि ।।
वृ- विपरिणते भावे यदि किञ्चित् प्रायश्चित्तस्थानमापन्नस्तत्र प्रथमत आलोचयितुमालोचनां दातुमाचार्याणामुपतिष्ठति । एवमेव अविपरिणतेऽपि द्रष्टव्यं । किमुक्तंभवति अविपरिणतेपिभावे यदि किञ्चिदापन्नः प्रायश्चित्तस्थानं, ततस्तत्राप्यालोचयितुमालोचनां दातुमाचार्याणामुपतिष्ठति, एवं ततो विपरिणते अविपरिणते वा भावे प्रायश्चित्तस्थानापतातावालोचिताकयामाचार्याय च्छेदं परिहारं वा प्रयच्छन्ति तस्य श्रद्धापूर्वकं करणायाभ्युपतिष्ठति । भिक्खुभावस्स अट्ठाए इत्यत्र पाठान्तरं भिक्खु उववायरस अट्ठाए इति तत्रोपपातशद्वव्याख्यानार्थमाह
[भा. २०७८ ]
उववाओ निद्देसो आणा विनओ य होंति एगड्डा । तस्स ठाए पुनरवि मितोग्गहो वासगाणुन्ना ।।
वृ- उपपातो निर्देश आज्ञा विनय इत्येतानि भवन्त्येकार्थानि । ततोऽयमर्थो भिक्षुरुपपातस्य आज्ञाया अर्थाय करणाय द्वितीयमपि वारं मितावग्रहानुज्ञा किमुक्तं भवति । मित्रा वा सानुज्ञा एतेन मिंतावग्गहपदव्याख्यानं कृतं मितावग्रहणं सूत्रे मितगमनादीनामुपलक्षणमतस्तदुपदर्शयति । मितगमन चेट्ठणतो मियभावमियं च भोयणं भंते ।
[भा. २०७९]
मज्झ धुवं अनुजाणह जाय धुवा गच्छमज्जाया ।।
वृ- मितं गमनं प्रयोजनवशतस्तस्य करणात् मितं चिठणत्ति अवस्थानं से तस्य यदि प्रवृत्ततया विश्रामनिमित्तं तस्य कियत्कालं भावात्, मितं भाषितं कार्ये समापतिते । तस्यावसरभावात् । मितं भोजनमेककुक्षिपूरणमात्रस्य भगवतानुज्ञातात् भदन्त परमकल्याण योगिन् ! मम ध्रुवमनुजानीत, या ध्रुवा गच्छमर्यादा तामप्यनुजानीत । इह ध्रुवं नियतं नैत्यिकमिति ते त्रयोऽप्येकार्थास्तथाप्यर्थभेदोऽस्ति । तत्र या ध्रुवा गच्छमयदित्यनेन ध्रुवशब्दार्थो व्याख्यातो ध्रुवमवश्यकरणीयमिति । सम्प्रति नियतनैश्चयिकशब्दव्याख्यानार्थमाह
[भा. २०८० ]
निययं च तहावस्सं, अहमवि ओहायमादि जा मेरा ।
निच्चं जाव सहाए, न लभामि इहा वसे ताव ।।
वृ- यावदवधावनिका मर्यादा तावदहमपि नियतं न हापयिष्याम्यवश्यकरणीयं । किमुक्तं भवति । नियतमवधावनमर्यादातोवश्य महापनीयमिति तथा नित्यमिति कोऽर्थः यावत्सहायान्न लभे, तावदिहावसामीति सहायलाभमर्यादाकमावसनं यावदवश्यमनुष्ठेयं नित्यमित्यर्थः ।
अधुना वेउट्टियमित्यस्य भावार्थं कथयति
[ भा. २०८१]
दिवसे दिवसे वेउट्टिया उपक्खे य वंदनादीसु । पट्ठवणमादिएसु उववाय पडिच्छणा बहुहा ।।
वृ- दिवसे दिवसे प्रतिदिनमित्यर्थः । पक्षे पाक्षिकदिने । चशब्दाच्चातुर्मासिकदिने संवत्सरदिने च वन्दनादिषु आदिशब्दात् क्षामणादिपरिग्रहस्तथा प्रस्थापनादिषु स्वाध्यायप्रस्थापनादिष्वत्रा
22 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org