SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-४, मूल - १०२, [भा. १७३०] कारणियंपुनसुत्तं,इमेयतहिंकारणा हुँति ।। वृ- यदि नामैतत् जघन्यादिभेदेन गच्छपरिमाणं, तत एवं सति सूत्रतोऽर्थतः तदुभयतश्च विरोधो दोषो भवेत् । सूत्रेऽन्यथाविहाराज्ञानात् । अत्र आचार्यः प्राह-कारणिकं कारणैर्निर्वृत्तं पुनरिदं सूत्रमतो नदोषः तानिचकारणानिपुनरिमानि वक्ष्यमाणानि तत्राधिकृतसूत्रप्रवर्तने भवन्ति ।। तान्येवाह[भा.१७३१] संघयणे, वाउलणा, नवमे पुव्वम्मि, गमनमसिवादी । सागरे, जातेजयणा, उउबद्धे, लोयणा, भणिया ।। वृ- इयं कारणविक्या शेषवक्तव्यविषयाचगाथा, ततोऽयं संक्षेपार्थः । संहननं यद्युत्तमं भवति, व्याकुलतावाव्याकुलीभवनंवागच्छे, नवमेवापूर्वे उपलक्षणमेतत्दशमेवासूत्रमभिनवगृहीतंसम्यक् स्मर्तव्यमस्ति, गमनं वा अशिवादिभिरसिवावमौदर्यादिभिः सम्पन्नं, सागरत्ति स्वयंभूरमणसध्शमतिप्रभूतमनेकातिशयसम्पन्नं नवमं पूर्व परावर्तनीयमस्ति, तत एतैः कारणैावपि विहरेयातां, तथा जातत्ति जातादिकल्पो वक्तव्यस्तत्रापि भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु यतना वक्तव्यता, यथा ऋतुबद्धे काले आगच्छद्गच्छद्भिरविरहितंतत्स्थानं कर्तव्यम्, गणिनाप्यवलोकना स्वयं करणीया कारणीया च, एतानि कारणान्यधिकृतसूत्रप्रवृत्तौ भणितानि ।। साम्प्रतमेतामेव गाथां व्याचिख्यासुः प्रथमतः संहननमितिपदं व्याख्यानयति[भा.१७३२] आयरिय उवज्झायासंघयणा धितिएजे उउववेया । सुत्तंअत्थोवबहुंगहितो, गच्छेयवाघातो ।। वृ-आचार्या वा उपाध्यायावाये संहननेन प्रथमेन वज्रऋषभनाराचलक्षणेन धृत्याच वज्रकुड्यसमानयाउपेतायुक्ताः सूत्रमर्थोवाबहुःप्रभूतो गृहीतो गच्छेच सूत्रार्थस्मरणव्याघातः ।।कुतोव्याघात इति चेत्, उच्यते-व्याकुलनातः । तामेवव्याकुलनामाह[भा.१७३३] धम्मकहिमहिड्डीएआवासनिसीहियाय आलोए । पडिपुच्छणवादिगहण,रोगी तहदुल्लभंभिक्खं ।। [भा.१७३४] वाउलणेसाभणिया जह उद्देसम्मिपंचमेकप्पे । नवमेदसमाउपुव्वा अभिनवगहिया उनासेज्जा ।। वृ-सहिधर्मकथीलब्धिसम्पन्नस्ततोभूयान्जनः श्रोतुमागच्छतीतिधर्मकथयाव्याकुलना । तथा महर्द्धिको राजादिः धर्मश्रवणाय तस्य समीपमुपागच्छति ततस्तस्य विशेषतः कथनीयं, तदावर्जने भूयसामावर्जनादन्यथा व्याकुलनातः सम्यग्धर्मग्रहणाभावे तस्य रोषः स्यात्, तस्मिंश्च रुष्टे भूयांसो दोषाः, अथवा अन्यः कश्चनापि महर्द्धिकाय कथयति तदानीमपि उष्णीकैर्भवितव्यं मा भूत कोलाहलतस्तस्य सम्यग्धर्माप्रतिपत्तिरिति कृत्वा । तथा महति गच्छे बहव आवश्यकी निर्गच्छन्तः कुर्वन्ति,बहवः प्रविशन्तोनैषेधिकी,तेसम्यनिरीक्षणीयाः, अन्यथातयोरकरणे, उपलक्षणमेतदन्यस्या अपिचसामाचार्याः प्रत्युपेक्षणादेः सम्यगकरणेयदिस्मारणंनकरोतिततउपेक्षाप्रत्ययप्रायश्चित्तसंभवः, ततः आवश्यकादिनिरीक्षणायां व्याधातः । तथा भिक्षामटित्वा समागतस्य तस्य संघाटस्यालोचयतो यदि पठ्यते तदा विकटनायामग्रेतनस्य पश्चात्तनस्य च संमोहः, संमोहाच्च सम्यगनालोचना तद्भावाच्चरणव्याघात इति तदालोचनायां न पठनीयम् । तथा गच्छे वसतोबहवः प्रतिपृच्छानिमित्तमागच्छन्तिततस्तेषामपिप्रत्युत्तरदानेव्याघातः ।तथातंबहुश्रुतंतत्रस्थितं श्रुत्वावादिनः समागच्छन्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy