________________
व्यवहार-छेदसूत्रम् -२- ४/१०२ नविरुद्ध इति कुत्रेत्युक्तम् ।। अथवान्येन प्रकारेणसूत्रसम्बन्धः, तमेवाह[भा.१७२७] पारायणेसमत्तेव निगतो, अत्थओभवेजोगो ।
बहुकायव्वे गच्छे एगेन समंबहिंठाति ।। वृ- पारायणं नाम सूत्रार्थतदुभयानां पारगमनं तस्मिन् पारायणे समाप्ते वाशब्दः सम्बन्धस्य प्रकारोपदर्शनार्थः । निर्गत आत्माद्वितीय इति वाक्यशेषः । कस्मान्निर्गत इति चेदत आह-बहुकायव्वे इत्यादि, गच्छःसबालवृद्धाकुलस्ततस्तस्मिन् बहुवैयावृत्त्यं कर्तव्यमतो गच्छे बहुकर्तव्ये तिष्ठतो मा सूत्रार्थतदुभयानां स्मरणे विघ्नो भूयादित्येकेन समं गच्छाद्वहिः पृथक् तिष्ठति, यदि पुनरेकाकी स्थातुमिच्छति तदा न कल्पते । एतदर्थप्रतिपादनार्थमादिसूत्रद्विकं, तत्प्रसङ्गतः शेषाण्यपि सूत्राणीत्येषोऽर्थतो योगसम्बन्धः ।। अनेन सम्बन्धे नायातस्यास्य व्याख्या, न कल्पते आचार्यश्चोपाध्यायश्चसमाहारो द्वन्द्वःआचार्योपाध्यायंतस्यआचार्योपाध्यायस्यचेत्यर्थः, एकाकिनो हेमन्तग्रीष्मयोःशीतकाले उष्णकालेवेत्यर्थः, चरितुं विहर्तुं कल्पते आचार्योपाध्यायस्यात्मद्वितीयस्य हेमन्तग्रीष्मयोश्चरितुम् । एवं वसूत्रेगणावच्छेदकस्यभावनीये, नवरमत्राद्यसूत्रेआत्मद्वितीयस्य प्रतिषेधो द्वितीयसूत्रेत्वात्मतृतीयस्यानुज्ञा |एवममीषांचत्वारिसूत्राणिवर्षाविषयाण्यपिवेदितव्यानि, नवरमत्र प्रथमसूत्रेआचार्यस्योपाध्यायस्य चात्मद्वितीयस्यप्रतिषेधोद्वितीयसूत्रेत्वात्मतृतीयस्यानुज्ञा, तृतीयसूत्रे गंणावच्छेदकस्यात्मतृतीयस्य प्रतिषेधश्चतुर्थसूत्रेत्वात्मचतुर्थस्यानुज्ञेति । इहोत्सर्गती द्वयोस्त्रयाणां वा जघन्यतोऽपि विहारोन कल्पतेयतइदंजधन्यादिभेदतो विहारपरिमाणम् ।। [भा.१७२८] पनगोवसत्तगोवाकालदुवेखलुजहन्नतो गच्छो ।
बत्तीसईसहस्सोउक्कोसो, सेसओमज्झो ।। वृ-कालद्विके ऋतुबद्धेकालेवर्षाकालेचजघन्यतः खलुयथाक्रमंगच्छोभवति पञ्चकः सप्तकश्च, पञ्च परिमाणमस्य पञ्चकः, एवं सप्तकः, वाशब्दः समुच्चये, किमुक्तं भवति, ऋतुबद्धे काले पञ्चको वर्षाकालेसप्तकः, कथमिति चेदुच्यते, ऋतुबद्ध काले आचार्य आत्मद्वितीयो, गणावच्छेदकस्त्वात्मतृतीयः एवंपञ्चकः । वर्षाकालेजधन्यतः आचार्यआत्मतृतीयो,गणावच्छेदकआत्मचतुर्थएवंसप्तक इति, उत्कर्षतः कालद्विकेऽपि द्वात्रिंशत्सहस्त्राणि, तथा चभगवत ऋषभस्वामिनोज्येष्ठस्य गणधरस्य पुण्डरीकनाम्नोद्वात्रिंशत्सहस्त्रोगच्छोऽभूत,शेषकः शेषपरिमाणोगच्छोमध्यमः ।।सम्प्रतिजधन्यतः पञ्चकसप्तकाभ्यां हीनतायां प्रायश्चित्तमाह[भा.१७२९] उउवासेलहुलहुगा एएगीते, अगीते गुरुगुरुगा।
अकयसुयाणबहूणविलहुओ लहुया वसंताणं ।। वृ-उउत्तिऋतुकालेपञ्चकाहीनानांगीतार्थानांविहरतांप्रायश्चित्तंलघुकोमासः,वासेत्ति वर्षाकाले सप्तद् हीनानां गीतार्थानां विहरतां चत्वारो लघुमासाः, एते लघु लघुका गीते गीतार्थविषया द्रष्टव्याः, अगीते अगीतार्थविषयाः पुनर्गरु गुरुकाः, किमुक्तं भवति-ऋतुकाले पञ्चकाद् हीनानामगीतार्थानां वसतांप्रायश्चित्तं गुरुकोमासः, वर्षाकाले सप्तकाद्हीनामगीतार्थानांचत्वारो गुरुकामासाः । अकृतश्रुतानामगृहीतोचितसूत्रार्थतदुभयानां बहूनामपि पञ्चकसप्तकादीनामपि वसतां यथाक्रममृतुकाले प्रायश्चित्तंलघुकोमासः । वर्षाकालेचत्वारो लघुकाः ।। अत्रचोदक आह
[भा.१७३०] एवंसुत्त विरोहो अत्थेवा उभयतो भवेदोसो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org