________________
६
व्यवहार-छंदसूत्रम् - ४ /१०२
ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातस्ततस्तन्निग्रहणेऽपि व्याकुलना; तथा महति गणे बहवः प्राधूर्णकाः समागच्छन्ति, ततस्तेषां विश्रामणया पर्युपासनया च व्याघातः । तथा बहवः खलु महति गणेानास्तेषां यावदालोचना श्रूयते, तदा व्याकुलना । तथा महति गणे भूयसां प्राघूर्णकादीनां प्रायोग्यं भैक्षं दुर्लभमिति साधवः केऽपि कुत्राप्यन्यत्रप्रेषणीया इतिव्याघातः, वाउलणेसा इत्यादि एषा व्याकुलना यथा कल्पे कल्पाध्ययने पञ्चमे उद्देशे सविस्तरं भणिता तथात्रापि द्रष्टव्या ।। नवमे पुव्वम्मीति व्याख्यानयतिनवमे दशमे पूर्वेऽभिनवे गृहीते यदि सततं ततो नश्येतामतोऽर्थ द्वयोर्विहारः । ।
[ भा. १७३५ ] असिवादि कारणेहिं उम्मुगनायं ति होज जा दोन्नि । सागरसरिसं नवमं अतिसयनयभंगगहणत्ता ।।
वृ- अशिवं नाम मारिः, सा उपस्थिता, तत्र च ज्ञातमुल्मुकं यथा उल्मुकानि बहून्येकत्राहृतानि ज्वलन्ति एकं द्वौ वा न ज्वलतः, एवं त्रिप्रभृतिषु बहुषु मारिः प्रभवति, नैकस्मिन् द्वयोर्वा, तत एवमशिवकारणेनादशब्दादवमौदर्येण राजप्रद्वेषतो वा गणभेदस्तावद्भवति यावत् पृथक् पृथग्द्वावपि भवेतामतो नानुपपन्नो द्वयोर्विहारः । । सागरेति व्याख्यानयति सागरसदृशं स्वयंभूरमणजलधितुल्यं नवममुपलक्षणमेतत् दशमं च पूर्व, कस्मादित्याह-अतिशयनयभङ्गादनेकैरतिशयैरनेकैर्नयैरनेकैर्भङ्गैश्च गुपिलत्वात् । ततोऽगीतार्थानामतिशयाकर्णनं मा मूत् । नयबहुलत? आ भङ्गबहुलतया वा बहूनां मध्ये परावर्तनं दुष्करमिति द्वयोर्विहारः । अन्यच्च
[भा. १७३६]
पाहुड, विज्जातिसया, निमित्तमादी, सुहंच पइरिके । छेदसुर्यमिव गुणणा अगीयवहलंमि गच्छंमि ।।
वृ- प्राभृतं योनिग्राभृतं गुणयितव्यम् । विद्यातिशया नाम विद्याविशेषायैराकाशगमनादीनि भवन्ति ते वा परावर्तनीया वर्तन्ते । निमित्तमतीतादिभावप्ररुपकम् आदिशब्दात् योगा मन्त्राश्च परिगृह्यन्ते । एते सर्वेऽपि सुखं सुखेन प्रतिरिक्त विविक्ते प्रदेशेऽभ्यस्यन्ते, न अगीतबहुले अगीतार्थसंकुले गच्छे छेदश्रुतस्य व्यवहारादेः, गाथायां सप्तमी षष्ठ्यर्थे, गुणना परावर्तनां (नं) कर्तु शक्यम्, तेषामगीतार्थानां कर्णाभ्यटनतः श्रुत्वा विपरिणामतो गच्छान्निर्गमनं मा भूदिति, सूरेरुपाध्यायस्य वात्मद्वितीयस्पान्यत्र गमनम् ।। सम्पति यादृशे द्वयोरन्यत्र गमनमुचितं तादृशमाह -
[भा. १७३७ ]
कयकरणिज्जा थेरा सुत्तत्थविसारया सुयरहस्सा । जे य समत्था वोढुं कालगयाणं उवहिदेहं ।।
वृ- कृतकरणा नाम गीतार्थतया परिणामकतया चान्पदापि अन्यैः सहानेकश ईदृशानि कार्याणि कृतवन्तः, यद्यपि च कदाचिद् द्वितीयः सहायो न कृतवान् तथापि योग्यत्यास कृतकरणीय इव द्रष्टव्यः, स्थविरः श्रुतेन पर्यायेण च, तथा सूत्रार्थयोर्विशारदाः सूत्रार्थविशारदाः, तथा श्रुतानि रहस्यानि अनेकान्यनेकशो यैस्ते श्रुतरहस्या इति सहायं प्रति विशेषणम् । सूरेरुपाध्यायस्य वा पूर्वगतसूत्रार्थधारिणोऽधिगतच्छेदश्रुतस्य च श्रुतरहस्यत्वाव्यभिचारात् । तथा द्वयोरेकतरस्मिन् काले गतेऽपरेण शरीरपारिस्थापनिकां कर्तु गच्छता द्वयोरप्युपाधिः शून्यायां वसतौ न मोक्तव्यो, मा दस्यवस्तमपहार्षुरिति कृत्वा द्वयोरप्युपर्धिमृतकशरीरं चान्यरेण वोढव्यम् । ततो ये कालगतानां देहं द्वयोरुपधिं च वोढुं समर्थास्ते अधिकृतमूत्रविषयाः । । तथा चाह
[ भा. १७३८ ]
Jain Education International
गुणसंपत्ता, कारणजाएण ते दुयग्गावि ।
For Private & Personal Use Only
www.jainelibrary.org