SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-४, मूल - १०९, [भा. २०४८] ७३ . वृ- पूर्वं पितापुत्रादिसम्बन्धेनासम्बन्धेष्वनेकेषु राजसु समकं सूत्रादिभिः प्राप्तेष्वत एवैककालमुपस्थाप्यमानेषु, 'अनभिजोगत्ति' गुरुणा अन्येन वाभियोगो न कर्तव्यो यथा इतस्तिष्ठथ इतस्तिष्ठथेति । किन्त्वेकतः पार्श्वे द्विधातो वा द्वयोर्वा पार्श्वयोर्यथैव स्थिताः स्वस्वभावेन तेषामावलिका तथैव तिष्ठतु । तत्रयोयथागुरोःप्रत्यासन्नः सतथाज्येष्ठोये तूभयोः समश्रेण्या स्थितास्ते समरत्नाधिकाः । इदानीं पूर्वगाथापश्चार्धव्याख्या- ईसर इत्यादि' यथा द्विप्रभृतयो राजान उक्ता एवं द्विप्रभृतयः श्रेष्ठिनो द्विप्रभृतयोऽमात्या द्विप्रभृतयो निगमा वणिजः ‘घडत्ति' गोष्टी द्विप्रभृतयो गोष्ट्यो यदि वा द्विप्रभुतयो गोष्ठिका 'कुलत्ति' यदि वा द्विप्रभृतयो महाकुला, द्विकग्रहणमुपलक्षणं तेन त्रिप्रभृतय इति द्रष्टव्यं । तथैव च व्याख्यातम् 'खुदत्ति' क्षुल्लकाः समकं प्रवाजिता इत्यर्थः । समकं सूत्रादिभिः प्राप्ताः सम रत्नाधिकाः कर्तव्या । एतेषामेव मध्ये यः पूर्वं प्राप्तः स पूर्वमुपस्थाप्यते इति वृद्धसम्प्रदायः ।। [भा.२०४९] ईसिंअन्नोअंतो वामे पासम्मिहोइआवलिया । अभिसरणंमि यवड्डीओसरणेसोव अन्नोवा ।। बृ- तेषामुपस्थाप्यमानानामावलिका गुरोर्वामपार्श्वे गजदन्तवत् ईषदवनतस्य अवनतीभूय स्थितास्तत्र यदि से गुरुसमीपमग्रतोऽभिसरन्ति तदा गच्छस्य वृद्धिर्ज्ञातव्या । यथान्येऽपि बहवः प्रव्रजिष्यन्तीति । अथ पश्चात् बहिरपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निःक्रमिष्यति अपद्रविष्यतिवेदितव्यंज्ञातव्यमेवेतिनिमित्तकथनम् ।। मू. (११०) आयरिय उवज्झाए असरणमाणे परंचउराय पंचरायातो कप्पागं भिक्खुंनोउवट्ठावेइ तंचेवभणियव्वं ।। वृ-अस्य व्याख्याप्राग्वत् । नवरं 'तंचेवभणियव्वं' इतिवचनादेवं परिपूर्णः पाठोद्रष्टव्यः ‘कप्पाए अत्थियाइंसेकेइमाननिज्जेकप्पागे, नत्थियाइंसेकेइछेएवापरिहारेवा, नत्थियाइंसेकेइमाननिज्जे कप्पाए, से संतरा छेदे वा परिहारे वा ।। अस्यापि व्याख्या प्राग्वत् । तत्र यैः कारणैर्न स्मरति तान्युपदर्शयन्नाह[भा.२०५०] दप्पेण पमाएणव वक्खेवणव गिलानतो वावि । एएहिं असरमाणेचउव्विहं होइपच्छित्तं ।। वृ-दर्पो निष्कारणोऽनादरस्तेन [१] प्रमादो विकथादीनां पञ्चानां प्रमादानामन्यतमस्तेन [२] व्याक्षेपेण सीवनादिना [३] ग्लान्यतः वा [४] एतैः कारणैरस्मरति प्रायश्चित्तमस्मरणनिमित्तं चतुर्विधमस्मरणकारणस्य दपदिश्चतुःप्रकारत्वात्तदेवमभिधित्सुः प्रथमतो दर्पतः प्रमादेनचाह-. [भा.२०५१] वायामवगनादिसु दप्पेणअनुठवेंति चउगुरुगा । विकहादिपमाएणवचउलहुगा होतिबोधव्वा ।। वृ- व्यायामवल्गनादिषु व्यापृततया यो निःकारणेऽनादर उपस्थापनायाः स दर्प उच्यते । तेन दर्पणानुपस्थापयतिप्रायश्चित्तंचत्वारो गुरुकाः, विकथादिनाअन्यतमेनप्रमादेनानुपस्थापयतिचत्वारो लघुकाभवन्तिबोद्धव्याः । [भा.२०५२] सिव्वणतुन्नणसज्झायज्झाणलेवादिदानकज्जेसु । वेक्खेवे होइगुरुगो गेलन्नेनं तुमासलहु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy