________________
उद्देशक : - ४, मूल - १०९, [ भा. २०४१ ]
वा हस्तक मात्रकेण वा भिक्षा ग्राह्यते इत्यादि परीक्षितस्य व्रतारोपणं कर्तव्यम् । तथा चाहदव्वादि पसत्थ वया एक्केक्क तिगंति उवरिमं हेठा । दुविहा तिविहाय दिसा आयंबिल निव्विगइयावा ।।
[भा. २०४२ ]
वृ - द्रव्यादौ प्रशस्ते व्रतान्यारोपणीयानि । एकैकं व्रतं त्रिकं त्रिकृत्व उच्चारयेत्कथमित्याह-उवरिमं हेठा अधस्तान्मूलादारभ्य यावदुपरितनं पर्यन्तवर्तिसूत्रम् । इदमेकमुच्चारणमेवं त्रिन्वारान् दिग् निब्ध्यते । द्विविधा त्रिविधा वा तत्र साधोर्द्विविधा तद्यथा आचार्यस्योपाध्यायस्य च व्रतिन्यास्त्रिविधा । तद्यथाआचार्यस्योपाध्यायस्य प्रवर्तिन्याश्च तथा उपस्थाननान्तरं तपः कार्यते । तच्च अभक्तार्थमाचाम्लं निर्विकृतिकमित्यादि । उक्तं च- जद्दिवसं उवठाविनो तद्दिवसं केसिं चि अभत्तट्ठो भवइ । केसिं चिं आयंबिलं केसिंचि निव्विगइयं इत्यादि । सम्प्रति माननीयपित्रादिविषये विधिशेषमाहपियपुत्तखुदुथेरे खुदुगधेरे अपावमाणंमि ।। सिक्खावणपन्नवणा दिठतो दंडिमाईहिं । ।
[भा. २०४३ ]
७१
वृ - द्वौ पितापुत्रौ प्रव्रजितौ । तौ यदि द्वावपि युगपत् प्राप्तौ तर्हि युगपदुपस्थाप्येते । अथ खुदुत्ति क्षुल्लकः पुत्रः सूत्रादिभिरप्राप्तः । थेरत्ति स्थविरः सूत्रादिभिः प्राप्तस्तर्हि स्थविरस्योपस्थापना विधेया । खुदुत्ति यदि पुनः क्षुल्लकः सूत्रादिभिः प्राप्तः स्थविरो नाद्यापि प्राप्तो भवति, तर्हि तस्मिन् स्थविरे सूत्रादिकमप्राप्नुवति यावदुपस्थापनादिवसः शुद्ध समागच्छति तावत्स्थविरस्य प्रयत्नेन शिक्षापना क्रियते आदरेण शिष्यत इत्यर्थः । तत्र यदि उपस्थापनादिवसः मर्यादया प्राप्तो भवति ततो द्वावपि युगपदुपस्थाप्येते । अथादरेण शिक्षमाणोऽपि न प्राप्तस्तदा स्थविरेणानुज्ञाते सति क्षुल्लक उपस्थाप्यते । अथ स्थविरो न मन्यते तदा प्रज्ञापना कर्तव्या । तस्यां च प्रज्ञापनायां क्रियमाणायां दृष्टान्तो दण्डिको ऽभिधातव्यः । दण्डिको राजा आदिशब्दादमात्यादिपरिग्रहः । स चेवम् एगो राया रज्जपरिब्भठो सपुत्तोऽन्नरायाणमोलग्गिउमाढत्तो । सो राया पुत्रस्स तुठो तं से पुत्तं रज्जे ठविउमिच्छइ । किंसो पिया नानुजाण । एवं तव जइ पुत्तो महव्वयरज्जं पावित्ति किं न मन्नसि । एतदेव सविशेषमाहथेरेण अनुन्नाए उवठनिच्छेवंठति पंचाहं । तिपणमनिच्छे उवरिवत्थुसहावेन जाहीयं ।।
[भा. २०४४]
वृ- स्थविरेणानुज्ञाते उपस्थापना क्षुल्लकस्य कर्तव्या । अथस दण्डिकादिर्भिदृष्टान्तैः प्रज्ञाप्यमानोपि नेच्छति । तथा पञ्चाहं पञ्चदिवसान् यावत् तिष्ठति । ततः पुनरपि प्रज्ञायते तथाप्यनिच्छानां पुनरपि पञ्चाहं तिष्ठन्ति । पुनः प्रज्ञाप्यतेतथाप्यनिष्टौ भूयः पञ्चाहमवतिष्ठन्ते । एवं यदि त्रिपञ्चाहकालेन स्थविरः .प्राप्तो भवति, तथा युगपदुपस्थापनातः परं स्थविरऽनिच्छत्यपि क्षुल्लक उपस्थाप्यते । वत्थुसहावेण जाहीयमिति वस्तुनः स्वभावो वस्तुस्वभावः अहंकारी सन् अहं पुत्रस्यावमतरः करिष्येऽहमिति विचिन्त्य कदाचित् उन्निष्क्रामेत् गुरोः क्षुल्लकस्य चोपरि द्वेषं गच्छेत् । एवं स्वरूपे वस्तुस्वभावे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपिस क्षुल्लकः प्रतीक्षाप्यतेयावत्तेनाधीतमिति । अथ द्वेऽपिपिता पुत्रयुगले तदायं विधिः दो थेरखुदुधेरे खुदुगवोच्चत्थ मग्गणा होइ ।
[भा. २०४५ ]
रन्नो अच्चमाई संजइ मज्झे महादेवी ||
वृद्वौ स्थविरौ सपुत्रौ समं प्रव्रजितौ तत्र यदि द्वौ स्थविरौ प्राप्तौ न क्षुल्लकौ ततः स्थविरावुपस्थाप्पेते । 'खुदत्ति' अथ द्वावपि क्षुल्लकौ प्राप्तौ न स्थविरौ तदा पूर्ववत् प्रज्ञापनोत्कर्षतः पञ्चदशदिवसान्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org