________________
७०
भिक्षादिप्रेषणे षण्णां कायानां विराधना अपरिज्ञानात् तथा
[भा. २०३७ ]
व्यवहार-छेदसूत्रम्
९-२-४/१०९
सुत्तत्थं कहइत्ता जीवाजीवेय बंधमोक्खं च । उवठावणे चउगुरुगा विराहणा जा भणिय पुव्वं ।।
- सुत्रार्थं षड्जीवनिकायपर्यन्तं अकथयित्वा तथा जीवाजीवान् बन्धं मोक्षं चाकथयित्वा एवमेवोपस्थापने क्रियमाणे उपस्थापितुश्चत्वारो गुरुकास्तपो गुरवः प्रायश्चित्तं तथा या विराधना पूर्वम-प्राप्तद्वारे षण्णां जीवनिकायानामुक्ता साऽत्रापि द्रष्टव्या । ततस्तन्निष्पन्नमपि तस्य प्रायश्चित्तमुढौकते।
[भा. २०३८ ]
अनहिगयपुन्नपावं उवठावंतस्स चउ गुरु होंति आणादिणो य दोसा मालाए होति दिठंतो ।।
वृ- अनधिगतपुण्यपापं सूत्रार्थकथनेऽप्यविज्ञातपुण्यपापमुपस्यापयतः प्रायश्चित्तं चत्वारो गुरवः कालगुरुका मासा भवन्ति, । आज्ञादयश्चानन्तरामिहिता दोषाः । अत्र मालाया दृष्टान्तो यथा स्थाणौ शूलाप्रक्षेपं वर्णसुगन्धपुष्पमालामारोपयतो वचनीयतादयो दोषाएवमत्राप्यनधिगतपुण्यपापे व्रतान्यारोपयत आज्ञादय इति ।
[भा. २०३९]
उदउल्लादि परिच्छा अहिगय नाऊण तो वदन्ते । एकं तिखुत्तो, जो न कुणइ तस्स चउ गुरुगा ।।
वृ- गोचरादि गतेन उदकार्द्रादिना परीक्षा कर्तव्या । वृषभेण तत्परीक्षानिमित्तं तेन सह गोचरगतेन उदकार्द्रेण हस्तेन मात्रकेण वा भिक्षा ग्राह्या । तत्र यदि स वारयति निषिद्धमेतत्कथं यूयमेव भिक्षामगृह्णीथ । ततो ज्ञायते एष परिणतसूत्रार्थोऽधिगतपुण्यपाये एवं शेषपरीक्षास्वपि भावनीयम् । तत उदकार्द्रादिपरीक्षाभिरधिगतपुण्यपापं ज्ञात्वा ततोऽनन्तरं व्रतानि गुरवो ददति । कथमित्याह-एकैकं वतं त्रिः कृत्वस्त्रीन वारान् । एवं यो न करोति तस्य चत्वारो गुरुका द्वाभ्यां लघवस्तपसा कालेन च प्रायश्चित्तं । अथ परीक्षामेव वैतन्येनाह
[भा. २०४० ]
उच्चारादि अथंडिल वोसिर ठाणाइ वावि पुढवीए । नदिमादिदगसमीवेसागनि निक्खित्तं तेउंमि ।। वियणभिधारण वाए हरिए जह पुढवीए तसेसु च । एमेव गोयरगए होइ परिच्छा उकाएहिं । ।
[भा. २०४१ ]
वृ- उच्चारादिरादिशब्दात्प्रश्रवणादिपरिग्रहः अस्थण्डिले सचित्तपृथिवीकायात्मिके व्युत्सर्जनं यदि वा स्थानादि स्थानमुर्ध्वस्थानमादिशब्दान्निषदनादिषरिग्रहस्तत् पृथिव्यां पृथिवीकायस्योपरि कुरुते । तथाऽप्कायविषये नद्याद्युदकसमीपेऽत्रादिशब्दात्तडागादिपरिग्रहः । तथा तेजसि तेजस्कायविषये सनिक्षिप्ताग्नौ प्रदेशे गाथायां तु निक्षिप्तशब्दस्यान्यथापाठः प्राकृतत्वात् । उच्चारादेर्व्युत्सर्जनमिति सर्वत्र सम्बध्यते तथा वाते वातविषये व्यज्जनस्य तालवृन्तस्याभिधारणं वातोदीरणाया अभिमुख्येन धारणं करोति । हरिते यता पृथिव्यां तथा वक्तव्यं हरितकायस्योपरि स्थानादि करोति यदिवोच्चारादि व्युत्सर्जनमिति । त्रसेष्वपि च पृथिव्यामिव वक्तव्यं । कीटिकानगराद्यतिप्रत्यासन्नमुच्चारादि स्थानादि वा करोतीति भावः । तत्र यदि वारयति तदा ज्ञायते सम्यक् परिणतोऽस्य धर्म इति योग्य उपस्थापनायाः एवमेव गोचरगतेऽपि तस्मिन् कायैः पृथिव्यादिभिर्भवति परीक्षा कर्तव्या तद्यथा-सरजस्केनोदकाद्रेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org