________________
उद्देशकः-४, मूल - १०९, [भा. २०३२] [भा.२०३२] लग्गादिचतुरंते अनुकूले दिजिए उअहजायं ।
सयमेव तुथिरहत्थो गुरुजहन्नेन तिनहा ।। वृ- इहोत्सर्गतो लोचे कृते यताजातेच रजोहरणादिके समर्पितेपश्चात्त्रिः कृत्व सामायिकमुच्चार्यते, इत्येष विधिर्यदिपुनर्लग्नादिकंत्वरमाणंस्यात्ततोऽनुकूलेलग्नादौचादिशब्दात्मुहूर्तादिपरिग्रहः त्वरमाणे: शीधं समापतति यथाज्ञातं सनिषद्यं रजोहरणमुखवस्त्रिकाग्रपूररुपं दीयते । उक्तंच । अहाजायं नाम सनिसेचं रयहरणं मुहपोत्तिया बालपज्जेय इति, ततो यदिगुरुः स्थिरहस्तो न कम्पते अट्टगृह्णानस्य हस्तः तर्हिसस्वयमेव जधन्येन तिस्त्रोऽट्ठअव्यवच्छित्वा गृह्णातिसमर्थः सर्वं वालोचं करोति[भा.२०३३] अन्नोवाथिरहत्थोसामाइयतिगुणमठगहणंच ।
तिगुणंपादक्खिणं नित्थारग गुरुगुणविवड्डी ।। वृ-आचार्यस्य स्थिरहस्तत्वाभावे अन्यो वा स्थिरहस्तः प्रव्राजयति समस्तंलोचंकरोतीतिभावः । तदनन्तरंगुरुः शोभने लग्नादौ प्राप्ते त्रिगुणंत्रीन्वारान्सामायिकमुच्चारयति । इयमत्रभावना-प्रथमतः प्रव्राजनीयमात्मनो वामपार्श्वे स्थापयित्वा चैत्यानि तेन सह वन्दन्ते ततः चतुर्विशतिस्तवं चिन्तयित्वा नमस्कारेण पारयित्वा चतुर्विशतिस्तवमाकृष्य त्रिकृत्वः सामायिकमुच्चारयति तदनन्तरमर्थग्रहणं स कारयितव्यः ।सामायिकार्थस्तस्यव्याख्यायते इतिभावः । ततः सूत्रतोऽर्थतश्वगृहीतंसामायिकमिति तदनुज्ञानिमित्तं विधिना त्रिगुणं प्रादक्षिण्यं कार्यते । तत्र तृतीयस्यां प्रदक्षिणायामनुज्ञा क्रियते, यथा निस्तारको भव, गुरुगुणैर्विवृद्धिर्भवतु, वर्धस्वेत्यर्थः । एवं प्रव्राजनायांकृतायांयत्कर्तव्यं तदाह[भा.२०३४] फासुय आहारोसे अनहिंडतोयगाहएसिक्खं ।
- तोहे उउवठावणछज्जीवनियंतुपत्तस्स ।। . वृ- प्रव्रज्याप्रदानान्तरं से तस्य प्रासुक आहारोदीयते । स च भिक्षां न हिण्डाप्यते किं त्वहिण्डमान एव शिक्षा ग्रहणशिक्षामासेवनाशिक्षां च ग्राह्यते । ततः षड् जीवनिकां प्राप्तस्याधिगृहीतषट्जीवनिकाध्ययनस्य उपस्थापना क्रियते । विपक्षे प्रायश्चित्तविधिमाह[भा.२०३५] अप्पतेअकहेतेअनहिगय अपरिच्छअतिक्कमेपासे ।
एकेको चउगुरुगा,चोयग सुत्तंतुकारणियं ।। वृ- अप्राप्ते षड्जीवनिकां पर्यायं वा जधन्यतः षण्मासानुत्कर्षतो द्वादशसंवत्सराणि तथा अकथयित्वा जीवाजीवादीन् तथा अनधिगते जीवाजीवादौ तथा अपरीक्षायां परीक्षाया अभाव तथा से तस्य उपस्थापयितोऽतिक्रमे एकैकस्य व्रतस्य वास्त्रयमनुच्चारणे एतेषु सर्वेषु प्रत्येकमेकैकस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः । अथ सूत्रे पर्यायादिकं नोपात्तमिति तत्कथने कर्थन सूत्रविरोधस्तत्राह-हे चोदक सुत्रमिदं कारणिकं पुरुषविशेषपात्रापेक्षमतः पर्यायाधनभिधानेऽपि न दोषः एनामेव गाथां वै तथाभाष्यकृद्विवृणोति । [भा.२०३६] अपत्तेसुएणंपरियागमुवठावेंतेचउगुरुगा।
आणादिणो यदोसा विराधना छण्हकायाणं ।। वृ- श्रुतेन षड्जीवनिकापर्यन्तेनाप्राप्ते पर्यायं वा जघन्यादि भेदभिन्नमप्राप्ते उपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः, तपसा कालेन च गुरुवो, न केवलमेतत् । किन्त्वाज्ञाअनवस्थामिथ्यात्वविराधनादोषास्तथा स उपस्थापितो भिक्षादौ किल कल्पिको भवति । ततरतस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org