________________
६६
व्यवहार - छेदसूत्रम् - २-४/१०८ द्वादशवर्षाणि त्रिषट्कमष्टादशमासान् कथमित्याह- अशुद्धेन अपिशब्दोऽत्र लुप्तो द्रष्टव्यः । प्रथमतः शुद्धेन तदभावे चाशुद्धेनापि तदनन्तरं मिक्ष्वादिना भक्तविवेकः कर्तव्यः । गुरुस्तु गच्छप्रवर्तक इति तस्य यावज्जीवं चिकित्सा, तत्र प्रथमादेशेन च भक्त विवेकं कर्तु शक्नुवन्तं प्रत्यष्टादशमासान् । कश्चिकित्साविधिस्तमभिधित्सुराह[भा. २०२०]
पयत्तेण ओसहं से करिति सुद्धेण उग्गभादीहिं । पणहानीए अलंभे, धम्मकहाहिं निमित्तेहिं ।।
वृ- प्रथमतः प्रयत्नेनोद्भामादिभिः शुद्धेन वस्तुजातेन से तस्यौषधं कुर्वन्ति, तदलाभे पञ्चपरिहान्यां यावञ्चतुर्गुरुकेनाप्यशुद्धेनापि तथाप्यलाभे धर्मकथाभिस्तदौषधमुत्पादयन्ति तथाप्यलाभे निमित्तैरपि ।।
[भा. २०२१]
तहवि न लाभे असुद्धं बहि ठिय सालाहिवानुसठादी । नच्छंते बहिदानंसलिंग विसणेन उड्डाहो ।।
वृ- तथापिनिमित्तैरपि चेदशुद्धंन लभंते, ततोऽनाथशालाया आरोग्यशाला तस्या मध्ये न प्रविशन्ति, किन्तु बहिः स्थितास्त आरोग्यशालात औषधं गवेषयित्वा समानयन्ति । अथ ते शालानिवासिनो न प्रयच्छन्ति । अथ स्वलिङ्गेनापि तत्र कस्मान्न प्रविशन्ति तत आह स्वलिङ्गविसनेन स्वलिङ्गप्रवेशेन प्रवचनस्योड्डाहः नामी किमपि जानते । न चामीषां धर्मः श्रेयानतः क्वचिदपि किंचिदप्यलभमाना अनाथा इवात्र समागता इति प्रवचनस्योपधात एतदेव 'पणहाणीए अलंभ' इत्यादिकं विवरीषुरिदमाह
[भा. २०२२ ]
पनगादी जागुरुगा, अलब्भमाणे बहिं तु पायोग्गे । बहिट्टिय सालगवेसण तत्थ पभुस्सानुसद्वादी ।।
वृ- पञ्चकादि परिहान्या पञ्चकादिप्रायश्चित्तमौषधोत्पादनाय तावदासेवनीयं यावच्चत्वारो गुरुकास्तथापि बहिः प्रायोग्ये औषधे अलभ्यमाने आरोग्यशालाया बहिः स्थिता औषधस्य गवेषणं कुर्वन्ते तत्र तद्वास्तव्यानामदाने यः प्रभुरारोग्यशालाया अधिपतिस्तस्यानुशास्तिमादिशब्दाद्धर्मकथां निमित्तं च प्रयुज्यते । [भा. २०२३]
असई अच्चियलिंगे पविसण पतिभाणवंत वसभाओ । जइ पडिवत्तियकुसला भासन्ति नियल्लगत्तं से ।।
- निमितैरप्यलाभे अर्चितलिङ्गेन यत्तस्य पूजितं लिङ्ग, तेन लिङ्गेन रक्तपटादिरूपेण प्रवेशनं कुर्वन्ति । तेषु प्रविष्टेषु ये प्रतिभानवन्तः प्रतिवचनदानसमर्था वृषभास्ते स्वलिङ्गेन गत्वा प्रभुं भाषन्ते यथा को युष्माकं सिद्धान्त एवमाभाष्य तत्र सिद्धान्तविषये प्रभूणा गृहीतलिङ्गैश्च सहपरस्परमुल्लापं तथा कुर्वन्ति यथा उत्तरवादिनो वृषभाभवन्ति, अथवा यदि प्रतिपत्तिकुशलाः परप्रतिपादनदक्षा वृषभास्ततस्ते गत्वा स तस्य प्रभोर्निजकत्वात्मीयत्वं भावयन्ति । तत्रापि सिद्धान्तविषये तैः गृहीतलिङ्गैः सह परस्परमुल्लापं तथा कुर्वन्ति यथा स आवर्ज्यत इति ।
[ भा. २०२४ ]
अहव पडिवत्तिकुसला तो तेन समं करंति उल्लावं । पभवंतो विय सो वी वसभेऊ उत्तरीकुणती ।।
बृ- अथवा ये प्रतिपत्तिकुशलाः परप्रतिवचनदानसमर्थास्ततस्ते गत्वा तेन प्रभुणा सह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org