SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उद्देशक : :- ४, मूल- १०८, [ भा. २०१५]. जीवितावधिकत्वात् ततो भवजीवितमरणात्प्राक्तनसूत्राभिहितात्तदनन्तरमिदं संयमजीवितान्मरणं प्रतिपाद्यते भवतीति तदर्थमिदं सूत्रमनेनसम्बन्धेनायातस्यास्य वाख्या-आचार्य उपाध्यायो वा मोहेन रोगेण वा अवधावन् उपाध्यायादिकानां गीतार्थपंचमानां पुरुषाणामन्यतमं वदेत् यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः ।। अज्जो ममंसि नं ओहावियंसि अयं समुक्कसियव्वों सेय समुक्कसणारिहे समुक्कसियव्वे सिया । से य नो समुक्कसिणारिहे नो समुक्कसियव्वे सिया, अत्थिथ इत्थ अन्नो के समुक्कसणारिहे सेसमुक्कसियब्वे, नत्थि या इत्थ अन्ने केइ समुक्कसणारिहे से चेव समुक्कसियव्वे तेसिं चणं सेसमुक्किट्ठसि परो वएज्जा दुस्समुक्किट्टं ते अज्जो निक्खिवाहि तस्स नं निक्खिवमाणस्स नत्थि केइ च्छेदं परिहारे वा ।। अस्य व्याख्या प्राग्वत् । अधुना नियुक्तिविस्तरः केन पुनः कारणेनासवावधावतीति चेदत आह [भा. २०१६ ] मोहेन वा रोगेन व ववहाणां भेसयां पयत्तेणं । धम्मका निमित्ते अनाहसाला गवेसणाय ।। वृ- अवधावनं मोहेन वा कामोद्रेकरुपेण रोगेण वा । तत्र मोहविषया यतना प्राक् तृतीयोद्देशकेऽभिहिता, यदि रोगेण ततो नावधातव्यम् । किन्तु प्रयत्नेन भेषजं दातव्यम् । तच्च धर्मकथानिमित्तेन चोत्पादनीयं तथाप्यलाभे अनाथशालातो गवेषणा भेषजस्य कर्तव्येति नियुक्तिगाथायाः संक्षेपार्थः । एनामेव सम्प्रति भाष्यकृद्विवरीषरिदमाह- [भा. २०१७ ] ६५ मोहेन पुव्वभणियं रोगेन करेंतिमाए जयणाए । आयरियकुलगणे वा संघ व कमेण पुव्युत्तं ।। वृ- यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्व तृतीयोदेशके मोहचिकित्साविषयं भणितं, तत्कर्तव्यमथ रोगेण तदानया वक्ष्यमाणया प्रथमतः प्रासुकेन तदलाबेनाप्रासुकेनापीत्येवंरूपया यतनया पूर्वोक्तं भेषजं प्रयत्नेन सम्पादनीयमित्यादिरूपं कुर्वन्ति । के ते कुर्वन्ति इति अत आचार्यः कुलं गणः सङ्गो वा कथमित्याह- क्रमेण परिपाटया । तामेव परिपाटी कालनियमनपूर्विकामाह [भा. २०१८ ] छम्मासे आयरिओ, कुलं तु संवच्छ्राणि तिन्निभवे । संवच्छरं गणो खलु, जावज्जीवं भवे संघो || वृ- प्रथमत आचार्यः षण्मासान् यावत् चिकित्सां कारयति, तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान् यावच्चिकित्सकं भवति, तथाप्पप्रगुणीभवने गणस्य- तदनन्तरं संवत्सरं यावत् गणः खलु चिकित्सां कारयति, तथाप्यनिवर्तितरोगे तं गणः सङ्घस्य समर्पयति, ततः सङ्घो यावज्जीवं प्रासुकप्रत्यावतारेण तदभावे चाप्रासृकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्तुमशक्नुवतः, यः पुनर्भक्तविवेकंकतु शक्नोति, तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारेदुः प्रापकत्वात्तदनन्तरं चेत्प्रगुणीभवतिततः सुन्दरमथ नभवति तर्हि भक्तविवेकः कर्तव्यः । अत्रैवादेशान्तरमाह [भा. २०१९] 225 Jain Education International अहवा बिंइयादेसा गुरुवसभे भिक्खुमादि तेगच्छं । जत्थिय बारसवासा, तिच्छक्कसासा असुद्धेण ।। वृ- अथवा द्वितीय आदेशो गुरुवसभौ च ते भिक्ष्वादौ च यथाक्रमं चिकित्सां कारयन्ति यावज्जीवं For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy