________________
व्यवहार - छेदसूत्रम् - २- ४ /१०७ गणधरपदमस्माकमप्येष सम्मतो यत एष गीतार्यो, वयस्यः, सम्पूर्णानि शुभानि लक्षणानि यस्यासौ ससम्पूर्ण शुभलक्षकः तथा एष सर्वेषां साधूनां सम्मतस्ततस्ते त्वया गणे स्थापितः । एवमेतौ द्वौ प्रकारावुप्पियणद्वारे व्याख्यातौ । एतौ द्वावपि जनौ यदि पूर्वमाचार्येण समीक्षितौ यधानर्हाविति तदा न कश्चिदाचार्याणामसमीक्षितदोषः । । गतमुप्पियणद्वारमधुना भीतसन्देशद्वारमाह
[भा. २००५ ]
असमाहिय मरणं ते, करेमि जइ मे गणं न देसि । इति गीते उगीते, संदिसए गुरु तओभीओ ।।
वृ- कश्चिदगीतार्थः पापीयान् प्रत्यासन्नमरणमाचार्यमवगम्य ब्रूते- याद मे मह्यं गणं न ददासि, ततस्तेऽसमाहितमरणं तथा करोमि वर्तमानसामीप्ये वर्तमानवद्वेति वचनात् प्राकृतत्वाद्भविष्यति वर्तमानात् ततोऽयमर्थः करिष्यामि यथा दीर्घकालं संसारं भ्रमसि । तत एवमुक्ते तस्य भीत आचार्यो गीत गीतार्थी देशकालपुरुषौचित्यवेदनात् गीतार्थान् संदिशति यथा एतस्मै मया गणो दत्त इति गीतार्थाश्च विदितकारणाब्रुवते[भा. २००६]
६२
आमंतिवोत्तुं गीयत्था जाणंता तं च कारणं । कठे तंतु निग्गहे अतिसेसीय संवसे ।।
बृ- आमं इच्छाम इति उक्त्वा गीतार्थास्तत्कारणं जानन्तः कृतार्थे निर्यापिते आचार्ये तं दुष्टाभिप्रायं निर्गुहन्ति निष्काशयन्ति । एवमेषोऽनर्हो भवति । अथातिशेषेऽतिशयज्ञानी जानाति । यथा साम्प्रतमेष निर्दोषीभूतः ।सवातस्मात् स्थानात्गुरुजनसमक्षंप्रतिक्रान्तस्ततः संवास्यते । । गतंभीतविदेशद्वारम् । इदानीमदेशिकद्वारमाह
[भा. २००७ ] अरिहो व अनरिहो होइ, जो उ तेसिमदेसितो । तुल्लदेसीव फरुसो महुरो व असंगहो । ।
वृ- एक आचार्यस्तस्य पर्षत् कुडुक्का । तस्या मध्ये एक आचार्येण गणधरपदे समीहितोऽन्ये चाचार्यस्य शिष्याः सिन्धुदेशादिषु विहरन्ति । ते सिन्ध्वादिषु विहत्याचार्यसमीपमागता एकं कुडुक्कमाचार्यसमीहितं मुक्त्वा अन्ये सर्वे कुडुकाः केचित्कालगताः केचित् प्रतिभग्नाः एवं स कुडुकदेशोद्भवः तेषां सैंधवादीनामनर्हो जातो, येन ते तस्य भिन्नदेशिकत्वादुल्लापं न परियच्छन्ति । अक्षरयोजना त्वेमर्होऽप्यनर्हो भवति यस्तेषां तत्कालभाविनां साधूनामदेशिको यथा सैंधवादीनां कुडुक्क इति ।। गतमदेशिकद्वारमधुना परुषद्वारमाह-तुल्लेदेसीव फरसो तुल्य देशीयः पूर्वं समीहितो गणधरपदे स पश्चात् परुषभावोजातः परुषत्वाश्चप्रतिचोद्यमान आक्रोशति । आक्रोशांश्चासहमानानामुत्संखडादिकं कुर्वन् गच्छभेदं करोति । एवमेष पश्चादनर्हः । । सम्प्रति अत्थियाइं अन्ने समुक्कसिणारिहे इत्यस्यार्थ विभावविषुः संग्रहद्वारमाह-महुरो व असंगहो । यः पूर्व समीहितः स सत्यपिमधुरत्वे असंग्रहो न संग्रहशीलः । अन्यस्तु संग्रहशीलो मधुरश्च ततो यः संग्रहशीलः समुत्कर्षते नेतर इति ।। साम्प्रतमस्मिन्नेवार्ये वाचकनिष्पादकंद्वारमाह
[भा. २००८]
वायंतगनिप्फायग चउरो भंगाउ पढमगो गज्झो ।
तइउ उ होइ सुन्नो, अन्नेण वसो वा वाएइ ।।
वृ- वाचको निष्पादक इति पदद्वयसंयोगतश्चत्वारो भङ्गास्तद्यथा-वाचयत्यपि निष्पादयत्यपीति प्रथमः । वाचयति न निष्पादयति द्वितीयः । नवाचयति निष्पादयति तृतीयः । न निष्पादयति चतुर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org