________________
उद्देशक :
:- ४, मूल- १०७, [ भा. १९९८]
सेविज्जतं विहंगेहिं सरं वा कमलोज्जलं ।। खग्गूडे अनुसासंतं सद्धावंतं समुज्जए । गणस्स गिला कुव्वंतं संगहं विसएसए ।। इंगियागारदक्खेहिं सया छंदानुवत्तिहिं । अविकडियनिद्देसं रायाणं व अनायगं ।।
६१
[ भा. १९९९ ]
[भा. २००० ]
बू - सती नाम शोभना स्वकीया वा निषद्या वा तस्यां गतमुपविष्टं शिष्यैः परिवारितमित्थं भूतमुपमयति । कौमुदी कार्तिकीपौर्णमासी तद्योगयुक्तं तारापरिवृतं शशिनमिव । तथा गृहस्थैः परतीर्थिभिः संशयार्थिभिश्च साधुभिर्नित्यशः सर्वकालं सेव्यमानं । किमिवेत्यत आह- कमलोज्जलं कमलपरिमण्डितं सर इव विहगैः पक्षिभिः । तथा खग्गूडान् कुस्वभावात् अनुशासन्तं सम्यग् उद्यताः समुद्यतास्तान् श्रद्धापर्यन्तं तेषां महर्ती श्रद्धामुत्पादयन्तं तथा गणस्य गच्छस्य अगिलया निर्जरार्थमात्मोत्साहेन स्वके विषये आत्मीयया शक्त्या इत्यर्थः संग्रहं कुर्वन्तम् । तथा इङ्गिताकारदक्षैश्छन्दोनुवर्तिभिः सदा सर्वकालमविकटितनिर्देशमखण्डिताज्ञं राजानमिव अनायकमविद्यतेनायको यस्य स तथा तंचक्रवर्तिनमित्यर्थः । दृष्ट्रा कश्चिदगीतार्थ उत्पन्नगौरवोभवति - उत्पन्न - गारवे एवं, गणित्ति परिकंखिओ । उप्पियंतं गणिदिस्स अगीतो भासेइ इमं ।।
[भा. २००१]
वृ- उत्पन्नमभिलषणीयतया जातं गौरवं यस्य स तथा एवमहमपि गणी भवामि गणिपदमवाप्य परिपालयामि । ततः शोभनं भवतीत्येवं परिकाङ्क्षितः परिकांक्षावान् गणिनमाचार्यमुप्पियन्तं मुहुर्मुहुः श्वसन्तं मर्तुकामलिङ्गं दृष्ट्वा कश्चिदगीतार्थः । कथमहं गणधरो भविष्यामीति विचिन्त्य यथा गच्छ्वर्तिनः साधवः शृण्वन्ति तथा मातृस्थानतः इदं वक्ष्यमाणं भाषते । तदेवाह
[भा. २००२ ]
अलमज्झ गणेणंति, तुब्भे जीवह में चिरं ।
किमेयं तेहि पुट्ठो उदिव्वए मे गणो किल ।।
वृ- अलं पर्याप्तं मम गणेन यूयं मम पुण्योदयेन चिरं प्रभूतं कालं जीवय । ततस्ते गच्छवर्तिनः साधवस्तस्यागीतार्थवचनमाकर्ण्य तमगीतार्थ ब्रुवते ।। किमेतत्त्वं ब्रूषे, यथालं मम गणेन एवं तैः पुष्टः सन्ः सोऽगीतार्थोवक्ति । क्षमाश्रमणेः किल मे गणो दीयते । तत एवमुक्तं मयेति । अथवा उप्पियणद्वारस्यायमर्थः । [ भा. २००३]
अट्ठाविए व पुव्वंतु, गीयत्था उप्पियंतए । आमदाहामो एयस्स, संमतो एस अम्हवि, ।। गीयत्थो य वयत्थोय, संपुन्नसहलक्खणे । सम्मतो एस सव्वेंसि साहू ते द्वावितो गणे ||
[ भा. २००४ ]
वृ-वाशब्दः प्रकारान्तरद्योतेन । पूर्वमस्थापितेगणधरे म्रियमाण आचार्यः किल उप्पियत्तित्ति मुहुर्मुहुः श्वसिति । तं च तथाभूतं दृष्ट्रा गीतार्थश्चिन्तयति आचार्यस्य सा वाग् नास्ति यया ब्रूते यता अमुकं साधुं गणधर स्थापयथ । मा भूत्सा वाणी वयमेव गच्छवर्तिनः साधुन् भणामः यथाचार्यैरमुको गणधर पदे सन्दिष्ट इति तथा चोपायं करिष्यामो यथा गच्छ साधूनाम कम्पनीयो भवति । एवं चिन्तयित्वा गच्छ साधवः श्रृण्वन्ति तथा ब्रूते-आमदाहामो एयस्सात्ति इच्छामः क्षमाश्रमणाश्च त्सायमुकस्य दास्यामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org