________________
व्यवहार-छेदसूत्रम् -२- ४/१०६ पश्यति । कृत्वा ततोऽभक्तार्थेन यावत् प्राप्यते षष्टेन वा अष्टमेन वा तत्र गन्तव्यम् । आह-यद्यपि चतुर्थादिना गच्छति तथापिलोकः पश्यति,तत आह[भा.१९८६] पायं न ‘रीयइ' जनो, वासे पडिवत्तिकोविदो जाय ।
असतोयबद्वे दूरेय अत्थएजापभायंति ।। वृ-प्रायः कर्षजनः क्षेत्राणां जलकर्दमाकुलतयाशेषजनोमार्गस्थजलाविलत्वादिनादुर्गमतया वर्षे वर्षाकाले 'न' रीयते, न गच्छति, यश्चात्र प्रत्तिपतिकोविदः परप्रतिपादनकुशलस्तेन एवमादिषु विषयेऽनेकान्युत्तराणिजल्पितव्यानि । एतावता ‘एगाहचउत्थादी' इत्यादिव्याख्यातम्इदानीं, मसती अन्नत्थ तत्थेव' इति व्याख्यानार्थमाह, ‘असतोवबद्धे' इत्यादि पूर्वोक्तो विधिः सान्तरे वर्षेऽभिहितो यदि पुनरसकृत् अवबद्धं वा सततंवर्षपतति यदि वा अतिदूरंगन्तव्यम् । नाष्टमेन प्राप्यतेततोऽसकृत् अवबद्धे वा वर्षे पतति दूर गन्तव्ये तत्रैव वर्षारात्रं कृत्वा प्रभाते मेघकृतान्धकारापगमतः प्रभातकल्पे संवत्सरे याति ।सूत्रम्
मू.(१०७) आयरियउवज्झाए गिलायमाणे अन्नयरं वएज्जा 'अज्जो, मामंसि नं कालगयंसि समाणंसि अयं समुक्कसियव्वे । से य समुक्कसणारिहे, समुक्कसियव्वे; से य नो समुक्कसणारिहे, नो समुक्कसियव्वे अत्थि याइं थ अन्ने केइ समुक्कसणारिहे, से समुक्कसियव्वे; नत्थि याइं थ अन्ने केइ समुक्कसणारिहे, से चेव समुक्कसिव्वे । तंसि वनं समुक्किट्टसि परो वएज्जा 'दुस्समुक्किट्टते, अज्जो; निखिवाहि!' तस्सणं निक्खवयाणस्स नस्थि केइछए वा परिहारे वा । जे साहम्मिया अहाकप्पेणंनो अब्भुठा विहरंति, सव्वेसिंतेसिंतप्पत्तियंछए वा परिहारेवा ।
वृ- अथास्यसूत्रस्यकः सम्बन्ध इत्याह[भा.१९८७] आयरियत्ते पगते अनुयत्तं' तेय 'कालकरणंमि ।
अत्थेसावेक्खोवा' वृत्तो इमतो विसावेक्खो ।। वृ- आचार्यत्वं पूर्वसूत्रेषु प्रकृतं अनुवर्तमानं च कालकरणं तत आचार्यत्वे प्रकृतेऽनुवर्तमानमेवाकालकरणे, इदमपिसूत्रमापतितमत्राप्याचार्यत्वस्य कालकरणस्य चाभिधास्यमानत्वात्, यदि वा पूर्वमर्थतः सापेक्ष 'उक्तोऽयमपि' चाधिकृतसूत्रेणाभिधीयमानः सापेक्ष इति सापेक्षत्वप्रकरणादनन्तरसूत्रादनन्तरमस्य सूत्रस्योपनिपातः ।अनेन सम्बन्धेनायातस्यास्यव्याख्या-आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायनन्यतरमुपाध्यायप्रवर्तिगणावच्छेदकगीतार्थ-भिक्षूणामन्यतमं सापेक्षः सन् वदेत, आर्य मयि कालगते सति अयं समुत्कर्षयितव्य आचार्यपदे स्थापयितव्यः । स चेत्परीक्षया समुत्कर्षणाहों भवति ततः समुत्कर्षयितव्यः । नोचेत्समुत्कर्षणार्हस्तर्हि नो समुत्कर्षयितव्यः । अथ योऽसौ पूर्वमाचार्येण समीक्षितः सोऽभ्युद्यतविहारमभ्युद्यतमरणं वा व्यवसितस्तत्राह-अस्ति चात्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः स समुत्कर्षयितव्यः । अथ नास्ति कश्चिदन्यः समुत्कर्षणार्हस्तर्हिस एवाभ्यर्थ्यः समुत्कर्षयितव्यः । तस्मिंश्च समुत्कर्षिते परो गच्छो वदेत् समुत्कृष्टं ते तव हे आर्य तस्मान्निक्षिप, एवं तस्य निक्षिपतो नास्ति कश्चित् च्छेदः । परिहारो वा, उपलक्षणमेतदन्यत्तपो वा सप्तरात्रादिकं, ये पुनः साधर्मिकगच्छसाधवो यथाकल्पेन आवश्यकादिषु यथोक्तविनयकरणलक्षणेन नोत्थाय विहरन्ति । तेषां प्रत्येकंसर्वेषा तत्प्रत्ययं यथाकल्पानभ्युत्थानप्रत्ययच्छेदः परिहारः सप्तरात्रं वा तपः प्रायश्चित्तमिति सूत्रसंक्षेपार्थः । एनमेव भाष्यकृत् प्रपञ्चयन् प्रथमतो गिलायमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org