________________
उद्देशक :
5:- ४, मूल- १०६, [भा. १९८१ ]
५७
पृथग्भावे यथा वटात् पटः पृथक्, एवमाकाशास्तिकायाद्धर्मास्तिकायोऽपीति; एकत्वे यथायमेतद्गुण एवमेषोऽपि अत्र ह्येवं शद्धस्तयोरेकरूपतामभिद्योतयति, अवधारणयथा केनापि पृष्टमिदमित्थं भवति । इतरः प्राह एवं इत्थमेवेति भावः एवमेवं शब्द एतेष्वर्थेषु वर्तते । पुनरेकत्वे भवति वर्तते । एकत्ववृत्तिमेव भावयति
[भा. १९८२ ]
एगत्तं उउबद्धे जहेव गमनंतु भंगचउरो य । तह चेव य वसासुं नवरि इमं तत्थ नाणत्तं ।।
वृ- एकत्वं तथा एवं शब्द प्रकाश्यमित्थं यथा ऋतुबद्धेऽन्यत्र गच्छान्तरे गमनं यथा च तत्र भङ्गाश्चत्वारः । शुद्धस्य शुद्धगमनमित्येवमादयः तथा च तेनैव प्रकारेण गमनं भङ्गचतुष्टयं च ज्ञातव्यं । नवरं केवलमिदं तत्र वर्षासु, भिक्षायां वसतौ शंकायां च नानात्वम् ।। तत्र भिक्षामधिकृत्याह-[ भा. १९८३ ] पउरन्न पानगमनं इहरा परिताव एसणाघातो । खेत्तस य संकमणे गुरुगा लहुगा य आरुवणा ।।
वृ- यो गच्छः प्रचुरान्नपाने स्थितः तत्र गन्तव्यं, इतरथा यदि पुनरप्रचुरान्नपाने गच्छे प्रविशति ततस्ते 'असंस्तरंतं' क्षुधा परिताप्यन्ते । परितापनां वाऽसहमानैः एषणाघातः क्रियते, अनेषणीयमपि गृह्णीयुरित्यर्थः, अथासंस्तरन्तः क्षेत्रसंक्रमणं कुर्वन्ति, तदा प्रावृषिक्षेत्रस्य संक्रमणे आरोपणा प्रायश्चित्तं चत्वारो गुरुकाः, । वर्षारात्रे भाद्रपदाश्वयुग्मासद्वयलक्षणे चत्वारो लघुकाः ।।
गतं भिक्षाद्वारमधुना वसतिद्वारमाह-
[ भा. १९८४ ]
वारग जग्गण दोसा सागारादी हवंति अन्नासु । तेनादिसंक लोए भाविणमत्थं पवासंति व पासंति ।।
वृ- यस्मिन् गच्छे वसतिः सङ्कटा तत्र नोपसंपत्तव्यं, यदि पुनरुपसम्पद्यते तत इमे दोषाः संकटायां हि वसतावमान्तास्ते वारकेण क्रमेण जागरणं कुर्युरेके जाग्रत्यन्ये स्वपन्ति, तदनन्तरं ते जाग्रत्यन्ये स्वपन्ति । एवं क्रमेण जागरणेऽजीर्णत्वादयो दोषाः अथ अन्यासु वसतिषु केचित्स्वपनाय व्रजन्ति तर्हि ये पाक् अभिशय्यायां सागरिकादयो दोषाः ते अत्रापि भवन्ति ।। गतं वसतिद्वारमिदानीं शङ्काद्वारमाहभिक्षाया अभावतो वसति सङ्कटत्वदोषतो वा ते क्षेत्रसंकमणं कुर्युस्तांश्चगच्छतोदृष्ट्रा लोकस्य स्तेनादिशंका उपजायते, यथा न कल्पते साधूनां गमनं तन्नूनमेते हेरिकाः स्तेना वा साधुवेषेणाहिण्डन्ते । अथवा भाविणमत्थंच पासंतित्ति एते भाविनमर्थं उत्पातरूपं, यदिवा न निष्पत्स्यते सस्यमित्येवंलक्षणं, ततोऽनागते नश्यति । तस्माद्वयमपि यत्नं कुर्मः । तदेव प्रचुरान्नपाने सङ्कटवसतिस्थिते च गच्छे प्रवेशे इमे दोषाः तस्माद्ये प्रचुरान्नपानग्रामे स्थिता ये च सावकाशायां वसतौ तत्रोपसम्पत्तव्यम् । तत्र चानया यतनया गन्तव्यं तामेवाह
[भा. १९८५ ]
आसन्नखेत्त भाविय खेत्तादपरोप्परं मिलंतेसु । जा अठमं अभाविय मानं अडतं बहूपासे ||
वृ- ये आसन्ने अनन्तरे क्षेत्रे स्थिता गच्छास्तत्र गन्तव्यं ।। असत्यनन्तरक्षेत्रे ये परक्षेत्रे स्थिता यैर्भिक्षादिनिमित्तमागच्छद्भिश्च परस्परं मिलद्भिः, गाथायां सप्तमी तृतीयार्थेऽपान्तराले पथि भाविता ग्रामास्तत्र गन्तव्यम् तेषामप्यभावे दूरेऽपि गम्यते ।। तत्र पुनर्भिक्षामहिण्डमानो गच्छति । किं कारणमत आह-‘मानं अडंतं बहूपासे,' माणमिति वाक्यालङ्कारे, भिक्षामन्टतं बहुलोकोऽभावितः तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org