SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ व्यवहार-छेदसूत्रम्-२-४/१०५ द्वितीयो भङ्गः,सम्प्रतितृतीयचतुर्थभंगावाह ।। [भा.१९७९] दोसा उततियभंगे, गाणंगणिया यगच्छभेदोय । सुयहानी कायवहो दोन्निवि दोसाभवेचरिमे ।। वृ-दोषौ द्वौ तृतीयभङ्गे, अशुद्धस्य शुद्धगमनमित्येवलक्षणं, तद्यथा-'गाणं' गणिकता गणे गणे प्रविशतीत्येवं प्रवादलक्षणा [१] तथा गच्छभेदतश्च [२] तथाहि-तस्मिन् निर्गच्छत्यन्येऽप्येवमेव निर्गच्छन्तिततोजायतेगणविनाशः ।। चरमेऽप्यशुद्धस्याशुद्धगमनमित्येवंरूपेभङ्गेद्वौदोषौ [अपिशब्दो भिन्नक्रमःसच यथास्थानंयोजितः] श्रुतहानिः [१] कायवधश्च[२] निष्कारणंदोषबहुलतया निर्गमने ह्यन्यत्रापि नावकाशइतिश्रुतहानिः [१] मार्गेच गमनतो गलानत्वादिभावतो वाकायवधः [२] ।। तदेवंभावितमृतुबद्धविषयंसूत्रं, सम्प्रतिवर्षावासविषयसूत्रमाह-- मू. (१०६) वासावासं पज्जोसविओ भिक्खू य जंपुरओ कट्ट विहरइ आहच वीसम्भेज्जा, अत्थियाइं थ अन्ने केइ उवसंपज्जणारिहे, से उँवसंपज्जियव्वे; नत्थि याइं थ अन्ने केइ उवसंपज्जणारिहे, तस्स अप्पणो कप्पाए असमत्ते कप्पइसे एगराइयाण पडिमाए जन्नं जन्नं दिसं अन्ने साहम्मिया विहरन्ति तनंतनं दिसं उवलित्तए । नो से कप्पइ तत्थ विहारवत्तियं वत्थए कप्पइ से तत्थ कारणवत्तियंवत्थए । तसिचनंकारणसि निट्ठयंसिपरोवएज्जा 'वसाहि अज्जो, एगरायंवादुरायंवा! एवंसेकप्पइ एगरायंवादुरायंवा वत्थए; नोसेकप्पइ परंएगरायाओवावत्थए । जंतत्थपरं एगरायाओ वा दुगयाओवसइ, से संतरा छेए वा परिहारेवा ।। वृ- वर्षावासे पर्युषितभिक्षुर्यं पुरतः कृत्वा विहरति आस्तेस कदाचित् विष्वग् भवेत् शरीरात्पृथग भवेत म्रियते इत्यर्थः, अस्ति चान्यः कश्चिदुपसम्पदनाहः,स उपसम्पत्तव्यः; नास्ति वा तत्रान्यः कश्चिदुपसम्पदनाहः तर्हि स आत्मनः कल्पेमा समाप्त इति से तस्य कल्पते एकरात्रिक्या प्रतिमया यत्र वसति तत्र एकरात्राभिग्रहेण । 'जन्नं जन्नं' इत्यादि यस्यां यस्यां दिशि सर्वे साधर्मिका विहरन्ति तांतां दिशमुपलातुनपुनः सेतस्य कल्पते, तत्रापान्तरालेविहारप्रत्ययं वस्तुं, कल्पतेसे तस्य तत्र कारणप्रत्ययं संघाटादिकारणनिमित्तं वस्तुम, तस्मिंश्च कारणे निष्ठिते यदि परो वदेत वस आर्य एकरात्रं द्विरात्रं वा, वाशब्दात्रिरात्रं वा एवं से तस्य कल्पते एकरात्रं द्विरात्रं वा वाशब्दात्रिरात्रं वा वस्तुं, नो से तस्य कल्पते एकरात्राद्विरात्राद्वापरंवस्तुं । यत्तत्रएकरात्राद्विरात्राद्वा परंवसति, तत्रसेतस्यस्वकृतादन्तरात्च्छेदः परिहारो वा । अत्रभाष्यप्रपञ्च:[भा.१९८०] एमेवयवासासु, भिक्खे वसहीएसकन्नाणतं । एगाह चउत्थादी, असती अन्नत्थ तत्थेव ।। वृ- एवमेवऋतुबद्धविषयसूत्रगतेनैवप्रकारेणवर्षासुसूत्रंभावनीयम् । नवरंभिक्षायां बसतौ शङ्कायां च नानात्वं तत्रान्यत्र गन्तव्यं एकाहेन चतुर्थेन वा आदिशब्दात् षष्टेनाष्टमेन वा असति अन्यत्रगमने तत्रैव वर्षारात्रः कर्तव्यः एष द्वारगाथासंक्षेपार्थः ।। . साम्प्रतमेनामेव विवरीषुः प्रथमतएवंशब्दं व्याख्यानयति[भा.१९८१] अपरिणामे पिहब्भावे, एगत्ते, अवधारणे । एवंसट्ठोउ एएसिं, एगत्ते उइहंभवे ।। वृ- एवंशब्दोऽपरीमाणे पृथग्भावे एकत्वे अवधारणे तत्रापरीमाणे यथा एवमन्येऽपीत्यादौ; For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy