________________
उद्देशक :
:-४, मूल- १०५, [भा. १९७४ ]
५५
ततो गृहीतोपकरणः एव निषद्योपगतो जाग्रत्तिष्ठेत्, तथाप्यशक्नुवन् गृहीतोपकरणः त्वग्वृतो जाग्रदवतिष्ठेत्, अथ त्रिष्वप्येतेषुयदि कथमपि प्रचलाया आशङ्का, तदा मा पात्रादिभङ्गस्यादित्युपकरणं पार्श्वे निक्षिप्यागृहीतोपकरणो यथा समाधिस्थितो निषन्नस्त्वगुवृतो वा जाग्रत्तिष्ठेत् । अथ जागरणं कर्तुं न शक्नोति तत आह-स्वपन् वा गृहीतोपकरणो ऽगृहीतोपकरणो वा यथासमाधिः कुर्यात् । एवं यतना पार्श्वस्थादीनां उपाश्रयेषु द्रष्टव्या । नैत्यिके नित्यवास्युपाश्रये नित्यवासीपरिभुक्तान् प्रदेशान् मुक्त्वा अपरिभुक्ते प्रदेशे उपकरणं निक्षिप्य यथासमाधि जाग्रत स्वपन् वा वसेत् । । एमेव अहाच्छंदे, पडिहणणाञ्झाण अञ्झयणं कन्ना । ठाणठितो विनिसामे, सुण आहरणं च गहिएणं ।।
[भा. १९७५ ]
वृ- एवमेव पार्श्वस्थादिगतेनैवप्रकारेण यथाच्छन्देऽपि यतना कर्तव्या । नवरं यदि वा शक्तिरस्ति तर्हि प्रतिहननं कर्तव्यं यदा स स्वग्राहं मुञ्चति । अथ न विद्यते तादशी शक्तिस्तर्हि ध्यानं तथा ध्यायति, यथा तद्वचन शृणोति । यदिवा 'अज्झयणति' यथाच्छन्दप्रज्ञापनाप्रवणं अध्ययनं परावर्तयति, यथा स ब्रूते - मामांनाशयेति 'कन्न' त्ति तस्य यथा स्वच्छन्दं देशनां कुर्वतः कर्णौनिजौ स्थगयति येन देशनां न शृणोति दूरतरं वा तिष्ठति अथ दूरतरस्थानस्थितोऽपि तद्देशनां निशमयति न च निद्रां समागच्छति, ततः स यथाच्छन्दो वक्तव्यो यथा शृणु किमपि आहरणं ततो यत्तस्यापूर्वं तदाहरणं कथनीयम् । 'गहिएण' त्ति गृहितेनात्मीयोपकरणेन । । एतदेव युक्त्या द्रढयति
[भा. १९७६ ] जह कारणेनिगमणं दिठं एमेव सेसगा चउरो । ओमे असंथरंते आयारे वइयामादीहिं । ।
वृ-यथा कारणे कारणवशतो निगमनं निर्गतं दृष्टं, एवमेव तथाकारणवशनः शेषाणि अपि चत्वारि द्वाराण्यसंवि निवेदना यतना इत्येवमादीनि यथा च आचारे आचारप्रकल्पेऽवमे दुर्भिक्षे व्रजिकादिभिरपि । आदिशब्दात्स्वज्ञात्यमनोज्ञासंविग्नपरिग्रहो व्रजेदित्युक्तमतः सोपपत्तिकेयं यतनेति सम्यक् श्रद्धेया । गतं यतनाद्वारम्, अधुना निसृष्टद्वारमाह
[भा. १९७७ ]
समन्त्रेसु विवासो, एनिसिं किमुत अन्नमोसन्ने । असढो पुन जयणाए अच्छेज्ज चिरंपि उइमेहिं । ।
वृ-समनोज्ञेष्वपि अपान्तराले वा उत्सर्गत एकां निशां एकांरात्रिंकल्पते । किंपुनरन्येषु असांभोगिकेषु अवसन्नेषु । उपलक्षणमेतत् पार्श्वस्थादिषु वा, तत्र सुतरामेकरात्र्यधिकं न कल्पते । कारणवशतः पुनरुत्कर्षतस्त्रीणि दिनानि वसेत् । । गतं निसृष्टद्वारमिदानीं दी हरवद्धं पडिच्छन्तीत्येतद्व्याख्यानार्थमाह'असढो' इत्यादि अशठः पुनः न केवलमुत्कर्षतस्त्रीणि दिनानि किन्तु चिरमपि प्रभूतकालमप्येभिः वक्ष्यमाणैः कारणैः यतनया तिष्ठेत् । । तान्येव कारणान्याह -
[भा. १९७८ ]
वासं, खंधार, नदी, तेना सावय वसेण सत्थस्स । एएहिं कारणेहिं अजयणजयणा नायव्वा ।।
वृ- वर्षं पतति, स्कन्धावारः कटकं तद्वा चलति, नदी गिरिनदी पूर्णावर्तते, स्तेना अपान्तराले द्विविधाः शरीरापहारिणउपकरणापहारिणश्च, श्वापदाः सिंहादयः, सार्थस्यवा वशेन गच्छति सार्थश्च चिरमपितिष्ठन् वर्तते । एतैः कारणैः चिरमप्यपान्तराले तिष्ठति, तत्र अयतना यतना च ज्ञातव्या; तत्र यदि यतना कृता तदा न प्रायश्चित्तविषयः अथायतनामाचरितवान् तदा प्रायश्चित्ते लगति, उक्तः शुद्धस्याशुद्धगमनमिति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org