________________
५२
व्यवहार - छेदसूत्रम् - २ ४/१०५ ग्रामस्यान्तः शून्यगृहे तत्रापि निवेदना कर्तव्या, शून्यगृहस्याभावे संज्ञीश्रावकस्तस्य गृहे वस्तव्यम् ।। सवा संज्ञी श्रावकः सागारिको ऽगारीकोऽगारीसहितः स्यात्तर्हि तस्य गृहस्य बहिरन्तवर्या या कुटी तत्र वस्तव्यम् । । तस्य अप्यभावे अमनोज्ञेषु संविज्ञेषु वस्तव्यं, अमनोज्ञासंविग्रेषु वस्तव्यं, तेषामप्यभावे नित्यकादिष्वसंविग्नेषु वसति, तत्रेयं यतना स्थानमूर्ध्वस्थानं निषद्या उपवेशनं त्वग्वर्तनं दीर्घकाय प्रसारणं तेषु गृहीतेनागहीतेन वा उपकरणेन जागरणंकर्तव्यम् । एष द्वारगाथासंक्षेपार्थः व्यासार्थं त्वभिधित्सुः प्रथमतो बहिर्ग्रामेति व्याख्यानयति--:
[भा. १९६० ]
वसही समणुन्नासइ, गामबहिं ठाइ सो निवेदेउं । अनिवेदियंमि लहुओ, आणाइ विराधना चेव ।।
वृ- समनोज्ञानां संविज्ञानां वसतेरसत्यभावे ग्रामाद्बहिस्तिष्ठति, न पुनर्नैत्यिकादिष्वसंविग्नेषु प्रवेष्टव्यं प्रागुक्तप्रायश्चित्तभावात्, सच बहिस्तिष्ठति । तेषां नैत्यिकादीनां वा संविग्नानांवा अमनोज्ञानां निवेद्य कथयित्वा यदि पुनर्न निवेदयति ततोऽनिवेदिते प्रायश्चित्तं लघुको मासः, आज्ञादिविराधना, आदिग्रहणात् आत्मविराधना संयमविराधना च परिगृह्यते । तथा हि- इयं भगवदाज्ञा तेषां निवेद्य बहिर्वस्तव्यमनिवेदनायामाज्ञालोपः आत्मविराधनां संयमविराधनां चाह
[ भा. १९६१ ] गेलने न काहिंती कोहेणं जं च पाविहिती तत्थ । तम्हानु निवेएज्जा, जयणा एतेसि माएउ ।।
वृ- अनिवेदने सति स कदाचित् ग्लानो जायते ग्लान्ये सति नास्माकं किमपि तेन निवेदितमिति क्रोधेन न किमपि ग्लानकृत्यं करिष्यति । गृहस्थाश्च तं तथाभूतं ग्लानं दृष्ट्वा तेषां नैत्यिकादीनां निवेदयेयुर्यथा युष्मदीयो ग्लानोऽसंग्रहको वर्तते । ततस्ते ब्रूयुर्मन्येरन् वा एषोऽस्मदीयो न भवति । यदि भवेत्तदास्माकमुपाश्रये तिष्ठेन्, निवेदयेद्वा । एवं यत्र गलानत्वेन वा आरक्षकादिग्रहणं । तत्र यदनर्थ प्राप्स्यति संयमविराधनात्मकमात्मविराधनात्मकं वा तत्सर्वमनिवेदनानिमित्तं तस्मात्तेषामनया वक्ष्यमाणया यतनया निवेदयेत् । तामेव यतनामाह
[भा. १९६२ ]
तुब्भं अहेसि दारं उस्सूरोत्ति जुताए एवं तु ।
नयनज्जइ सत्थो वी, चलिहिनं किं केतियं वेलं ॥।
वृ- यदाहमागतस्तदा युष्माकमुपाश्रयद्वारमुषितमासीत् । तत एवं मया विकल्पितमुत्सूरं वर्तते इति युतायां पृथग्भूतायां वसतावुषितः अपि च न ज्ञायते सार्थोऽपि किं कियतीं वेलां, सप्तम्यर्थे व्याप्तौ द्वितीया, कस्यां वेलायां चलिष्यति, ततः पृथगुपाश्रये स्थितः । अथ स वेलायामागतस्तत इदं वदेत्-[भा. १९६३ ] साहु सगासे वसिउं अतिप्पियं मज्झ किं करेमित्ति ।
सत्थवसोहं भंते, गोसे मे वहेज्जह उदंतं ।।
वृ- साधुसकाशे साधुसमीपे च वस्तुं ममातिप्रियं परं भदन्त सार्थवशो ऽहं ततः किं करोमि तस्मात् गोसे प्रभाते मे उदन्तं वार्तां वहत ।
[भा. १९६४ ]
एवं न उ दुरुस्से अह वाहिं होज्ज पच्चवायाउ । ताहे सुन्नह घरादिसु वसति निवेदितु तह चेव ।।
वृ- एवमनया यतनया निवेद्य न तु नैव ग्रामाबर्दूरं वसेत् किन्तु ग्रामस्य समीपे वसेदथ बहिः स्तेनादिकृताः प्रत्यवाया अनर्था भवेयुस्ततस्थथैव पूर्वोक्तप्रकारेणैव निवेद्य शून्यगृहादिषु वसति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org