________________
उद्देशकः-४, मूल - १०५, [भा. १९५५] परिचितकुलपरिगहस्तान् दोषान् इह वजिकादयः प्रतिबन्धदोषहेतुत्वात् । दोषा इत्युक्तास्तथाऽसंविग्नांश्चापि स परिहरन् गच्छेत् । अथ के खल्वसंविग्नाः सूरिराह-नित्यादयो नित्यवास्यादयस्ते ज्ञातव्याः। तेषामपिहरणेप्रवेशादौ प्रायश्चितविधिमाह[भा.१९५६] बिइयादीए अहच्छंद वज्जिएपविसदाण गहणेय। .
लहगाभुजंणगुरूगासंघडिमासोजंचन्नं।। वृ-दूरमार्गेगच्छता अपान्तरालेसंविग्नसुमनोज्ञानांवसतौवस्तव्यम् । तदभावेनैत्यिकादीनांसंविग्ने च अमनोज्ञानां निवेद्यान्यस्यां वसतौ स्थावव्यम् । यदि पुन त्यिको नित्यवासी आदिशब्दात्पार्श्वस्थादिपरिग्रहस्तस्मिन् नैत्यादिकेयथाच्छन्दवर्जितेप्रविशतियदिवा तेभ्यः किमपिभक्तादिकंददाति, अथवा तेभ्यो गह्णाति तदा प्रवेशेन ग्रहणे दानेच प्रत्येक चत्वारो लघुका । भुंजणे गुरूगा इति । अथ तैः सहभुङ्क्तेतदाभोजनेचत्वारो गूरूकाः । अथ नैत्यकादिसंघाटंयाचित्वातेन सह हिण्डते।ततः संघाटे हिण्डने लघुको मासः, जं चण्णमिति यच्च तेन संघाटकेन हिण्डमानोऽकल्पिकग्रहणतः तदास्वादनेन लाम्पट्यतः सेविष्यते । तदपि च प्रायश्चित्तं प्राप्नोति तदेवं यथाच्छंदवर्तिते नैत्यकादौ प्रवेशादिषु प्रायश्चित्तमुक्तम् ।। अधुना यथाच्छन्दे तदाह[भा.१९५७] एएचेवय गुरुगा पच्छिता होतिउअहाच्छंदे ।
- अमणुन्नेसुंमासोसंभुजणेहोतिचउगुरुगा ॥ वृ-अथामनोज्ञेषुसंविग्नेषु प्रविशति, तदा प्रवेशेदाने ग्रहणेच प्रत्येकं लघुको मासः । अथतैः सह भुङ्क्तेतदा चत्वारो गुरूकाः संघाटके लघुको मासः । यत एवमसंविग्नेषु प्रायश्चित्तानि तस्मादेतान् परिहरेत् । अथमार्गे संविग्ना नसन्तिततःकारणवशतोऽसंविग्नेष्वपिगन्तव्यम् । (गत) पतितमिदानीमसंविग्नद्वारतेषुच गत्वा यत्कर्तव्यं तदाह- एतान्येव प्रायश्चित्तानि यथाच्छन्देगुरुकानि भवन्तितद्यथाप्रवेशेदाने ग्रहणेभोजनेचचत्वारो गुरुकाः ।संघाटे गुरुकोमासः । [भा.१९५८] संविग्गेगंतरिया, पडिच्छ संघाडएअसति एगो।
साहम्मिएसुजयणा तिन्निदिनपडिच्छसज्झाए;।। वृ-संविग्नेन संविग्नगुणेनैकेनान्तरिता व्यवहिताः संविग्नैकान्तरिता असंविग्नास्तेषु कारणवशतो गन्तव्यम्। तत्रच भिक्षां निवसनं च कुर्वता यथा प्रथमोद्देशके परिहारिकस्य यतनोक्तातस्यापि द्रष्टव्या तैरपि असंविग्गैर्यदि स एकाकी तत एकाकिनः सतस्तस्य संघाटको दातव्यः । अथ योऽसौ द्वितीयको योग्यो दातव्यः, सोऽन्यत्र प्रेषणेन गतो वर्ततेततस्ते ब्रुयुरार्य! एकरात्रंद्विरात्रं त्रिरात्रंवा प्रतीक्षणीयम् । तत एतेन कारणेनोत्कर्षतः त्रिरात्रमपि प्रतीक्षते, असति संघाटके एक एकाकी व्रजेत्। तस्य च तथा व्रजतोऽपान्तराले यदि साधर्मिका भवन्ति । ततस्तन्मध्ये गत्वा वस्तव्यं कारणंच निवेदनीयं, निवेदिते कारणेतैःसंघाटको दातव्यस्तदभावेततोव्रजनीयमथप्रतिपृच्छानिमित्तमेकंद्वित्रीणिवा दिनानि यावत् यावत् प्रतीक्षापयेत्तत आह, स्वाध्याये स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्तमित्यर्थः उत्कर्षतस्त्रीणि दिनानि प्रतीक्षेत एषासाधर्मिकेषुयतना । तदेवमसंविग्नद्वारमुक्तमिदानी निवेदनाद्वारमाह[भा.१९५९] बहिगाम घरेसन्नी, सोवा सागारियं उवहिं अंतो ।
ठाण निसेज्जतुयट्टणगहियागहिएणजागरणा ।। वृ-संविग्नसमनोज्ञानामभावे ग्रामस्यबहिर्नेत्यिकादीनांनिवेद्य तिष्ठति,ग्रामस्यबहिः प्रत्यपायसंभवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org