________________
५०
[ भा. १९५० ]
व्यवहार- छेदसूत्रम् - २ ४/१०५
गच्छी गणीय सीयइ बिई न गणीउ तइए न वि गच्छो ।
गणी अवि सीय, सो पावतरो न उन गच्छो ।।
वृ- गच्छः सीदति गणी चेति प्रथमः, गच्छः सीदति न गणीति द्वितीयः, न गच्छः सीदति किन्तु गणीति तृतीयः, न गच्छा नापि गणीतिचतुर्थः, । तथा चाह-द्वितीये भङ्गे गणी न सीदति, तृतीयन गच्छः, चतुर्थः चोदनमधिकृत्य शून्य इति नोपात्तः, । तत्राद्येषु त्रिषु भङ्गेषु मध्ये यत्र प्रथमतृतीये वा गणी स पापतरो यत्र पुनर्गच्छः सीदति । न गणी नासौ द्वितीयः पापतरः । किं कारणमिति चेदत आहआयरिए जयमाणे, चोएउं जे सुहं हवइगच्छो । तंमि उ विसीयमाणे, चोयणमियरे कहं गेण्हो (हे ) । ।
[ भा. १९५१]
आचार्ये यतमाने गच्छः सुखेन चोदयितुं शक्यमानो भवति । आचार्यस्य प्रतिभयात् तस्मिन्नाचार्ये विषदिति चोदना शिक्षामितरे साधवः कथं गृह्णीयुः, नैव गृह्णीयुरितिभावः, आचार्यस्य प्रतिभयाभावादतः प्रथमतृतीयौ भङ्गौ पापतरौ, न द्वितीय इति ।।
[भा. १९५२ ]
आसन्नट्ठिएसु उज्जएसु जहति सहसा न तं गच्छं । मा दूसेज्ज अइठे, दूरतरे वा पनासेज्जा । ।
वृ- यद्यपिनाम आसन्ने प्रदेशे उद्यतविहारिणः स्थिता विद्यन्ते, तथा तेष्वासन्नस्थितेषूद्यतेषुसहसा न तं गच्छं जहाति परित्यजति । किं कारणमिति चेदत आह, - तन्मा अदुष्टान् दूषयेत् गच्छः । किमुक्त भवति ? न विषीदन्ति तेऽपि सीदत्साधुसंसर्गतो मा विषीदेयुरिति येऽपि सीदन्ति तेऽतिदूरतरं प्रणश्येयुर्विषीदेयुः । तदेवं षभचोदनं भाषितमिदानीं स्थविरागमनं भावयति
[ भा. १९५३ ]
कुलथेरादी आगम चोदना जेसु विप्पमायंति ।
चोदयति तेसु ठाणं, अठिएसु उ निग्गमो भणितो ।।
वृ- वृषभशिक्षायाः प्रत्यावर्तनस्य वा अभावे पाक्षिके चातुर्मासिके सांवत्सरिके वा यावत् कुलस्थविराणां गणस्थविराणां सङ्घस्थविराणां वा आगमस्तावत् प्रतीक्षते । कुलस्थविरादीनां चागमे तेषां निवेदना क्रियते, ततस्ते स्थविरा येषु स्थानेषु ये विप्रमाद्यन्ति, तेषु स्थानेषु तान् प्रतिचोदयन्ति । ते प्रतिचोदिता यदि स्थितास्ततस्तेषु स्थितेषु सत्सु स शिष्यपरिवारस्तत्रैव स्थानं करोति । स्थितेन च तेन द्विविधापि शिक्षा शिक्षणीया । अथ ते चोदिताः सन्तो न स्थितास्तततस्तेष्वस्थितेषु ततो गच्छान्निर्गमो भणितस्तीर्थकरणगणधरैः । । गतमागमद्वारम्, पतिते निर्गमद्वारमतस्तदेव भावयति
[ भा. १९५४ ]
कप्पमत्ते विहरइ, असमत्ते जत्थ हुति आसन्ना ।
साहिम्मि तहिं गच्छे, असतीए ताहिं दूरंपि । ।
वृ- यदि आचारप्रकल्पः सुत्रतोऽर्थतश्च समाप्तो भवति । ततस्तस्मिन् कल्पे आचारप्रकल्पे समाप्ते स्वयंतथा विहारक्रमं विहरति । अथ नाद्यापि समाप्त आचारप्रकल्पस्तर्हि तस्मिन्नसमाप्ते यत्र यस्यां दिशि आसन्ना अनन्तरक्षेत्रवर्तिनः साधर्मिकाः संविग्नाः सांभोगिकास्तत्र गच्छेत्। अथासन्ना न विद्यन्ते तत आसन्नानामसत्यभावे दूरमपि गच्छेत् । । कथं गच्छेदत आह
[ भा. १९५५ ]
वइयादीए दोसे असंविग्गे या विसो परिहरंतो । के असंविग्गा खलु नियया दीया मुनेयव्वा ।।
वृ- व्रजिकादीन् दोषान् व्रजिका गोकुलं आदिशब्दात स्वमातापितृपूर्वपरिचितपश्चात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org