________________
उद्देशक :- ४, मूल - १०५, [भा. १९४६ ]
[भा. १९४६ ]
जत्थ पविट्ठो जइ तेसु, उज्जया हो उ पच्छ हावेंति । सीसा आयरिओ वा, परिहानी तत्थिमा होइ ।।
वृ- यत्र गच्छे सशिष्यपरिवारः प्रविष्टः सन् सूत्रार्थानामागमनं करोति तत्र यदि ते साधवः पूर्वं सुष्ठु उद्यता भूत्वा पश्चात्सामाचारी हापयन्ति, आचार्यो वापश्चात् परिहापयति तत्र हानिरियं वक्ष्यमाणा भवति ज्ञातव्या । तामेवाह
[भा. १९४७ ] पडिलेह दिय तुयट्टण निक्खिव आयाण विनय सज्झाए । आलोग ठवण मंडल भासो गिहमन्न सेज्जतरे ।।
४९
वृ- पडिलेहित्ति उपकरणं न प्रत्युपेक्षन्ते तथ अग्लाना मार्गपरिश्रमरहिताश्च दिवा त्वग्वर्तनं कुर्वन्ति शेरते इत्यर्थः । निक्खिवत्ति दण्डादिकं निक्षिपन्तो न प्रत्युपेक्षन्ते न परिमार्जन्ति दोषैर्वा दुष्टं प्रत्युपेक्षणं परिमार्जनं वा कुर्वते, आयाणत्ति दण्डादिकमाददाना न प्रत्युपेक्षन्ते न प्रमार्जयन्ति दुःप्रत्युपेक्षणं दुः प्रमार्जनं वा कुर्वन्ति । विनयं कृतकर्मलक्षणं वाचनादिपु न कुर्वन्ति । सज्झाएत्ति स्वाध्यायो वा न क्रियते, मण्डली सामाचारी वा न कुर्वन्ति, । आलोगत्ति संखडीं शरीरं वा प्रलोकन्ते, यदि वा आलोचना न क्रियते, अनालोचितं भुञ्जतेइत्यर्थः । ठवणत्ति स्थापनाकुलानि विशन्तिस्थापितं वा गृह्णन्ति । मंडलित्ति भोजनमण्डली समाचारी हापयन्ति । भासत्ति भाषायामसमिति भाषन्ति (न्ते) एकग्रहणे जातीयग्रहणमिति न्यायात् शेषास्वपिं समितिष्वसमिताः । गिहमत्तत्ति गृहिमात्रकेषु प (व) टलिकादिष्वानातं गृह्णान्ति । सेज्जायरोत्ति शय्यातरपिण्डं भुज्जते ।।
[ भा. १९४८ ]
एमायी सीयंते, वसभा चोयंति चिठ्ठति द्वियंमि । असती थेरा गमनं, अच्छति ताहे पडिच्छंतो ।।
वृ- एवमादिष्वादिशब्दादुदिपरिग्रहः सीदतः साधून् गुरुं वा वृषभाश्चोदयन्ति शिक्षयन्ति । तत्र यदि चोदितः साधुवर्गो गुरुर्वा तिष्ठति ततस्तस्मिन् स्थिते सोऽपि सशिष्यपरिवार आगन्तुकस्तिष्ठति । अस्ती इत्यादि असत् शिक्षायाः पुनः प्रत्यावर्तनस्य वा अभावो यदि ततो यावत् पाक्षिके चातुर्मासिके संवत्सरे वा कुलस्थविराणां सङ्घस्थविराणां वा गमनं भवति तावत्तत्प्रतीक्षमाणआस्तेतेषु कुलादिस्थविरेषु समागतेषु निवेदयति तथाप्यतिष्ठत्सु ततो निर्गमनम्। एतदेव व्याचिख्यासुः प्रथमतो वृषभचोदनं 'सप्रायश्चित्तमाह'
[भा. १९४९ ] गुरू वसभ गीयगीते, अचोदेति गुरूगमादि जालहुओ । सारेइ सारवेई, खरमऊएहिं जहा वत्युं । ।
वृ- वृषभः प्रतिपन्नगच्छाभारः स्वयं सारयति शिक्षयति । अथवा यो येनोपशाम्यति तंतेन सारापयति शिक्षापयति । कथमित्याह- आचार्योपाध्यायवृषभस्थविरभिक्षुकाणां मध्ये यथा वस्तुस्त्वनतिक्रमेण खरमृदुभिर्वचनैः सारयति सारापयति वा । किमुक्तं भवति यः खरेणसाध्यस्तं खरेण खरण्टयति, । मृदुसाध्यं मृदुभिर्वचनैःसारयति । अन्यथा प्रायश्चित्तं तदेव पूर्वार्धन दर्शयति, - गुरु इत्यादि यदि वृषभो गुरूमाचार्यमुपाध्यायं वा न प्रतिचोदयति, तदा चतुर्गुरूकं वृषभो वृषभंन प्रतिचोदयति चतुर्लघु, वृषभो गीतार्थ न प्रतिचोदयति मासलघु, | अक्षरयोजना त्वेवम्- गुरूवृषभगीतागीतान् चोदयति । गुर्वादि चतुर्गुरू प्रभृति यावदन्ते लघुको मासः । अत्र पुनः सीदत्सु चत्वारो भङ्गास्ताने वाह
22 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org