________________
व्यवहार-छेदसूत्रम् - २- ४ /१०५ बू-एको ब्रूते - अहमुपकरणत्ति उपकरणोत्पादक आसं, अन्योऽहं बालवृद्धानां वैयावृत्त्यकरो, ऽपर क्षपकवैयावृत्यकरो, ऽन्यो ग्लाने इति ग्लानैयाहतकरः अपरो धर्मकथा धर्मकथाव्यापारनियुक्तः, अन्यो वादी परवादिमथने नियुक्तः, गुरूचिंतत्ति अपरो ब्रूते-अहं गुरोर्यत्कर्त्तव्यं तत्र नियुक्तः, वायणत्ति अपरो हं वाचनाचार्यत्वे नियुक्त, अन्योऽहं प्रेषणे नियुक्तः, अपरो ब्रूतेऽहं कृतिकर्मकरणे विश्रामणे ।। [भा. १९४१ ] एएसुं ठाणेसुं, जो आसि समुज्जओ अठविओवि । ठविओवि न विसीयइ, सठाविउमलं खलु परेसिं । ।
वृ- एते खलु उपकरणादिषु कृतकर्मपर्यवसानेषु स्थानेषु यः पूर्वस्थापितोऽपि गणधरपदे समुद्यत आसीत् । सगणधरपदे स्थापितोऽप्येतषुस्थानेषु न विषीदति कृतकरणत्वात् । स इत्थंभूत एतेषु स्थानेषु परानू, गाथायां षष्ठी द्वितीयार्थे प्राकृतत्वात् सम्बन्धे वा, यथा भाषाणामश्रीयादित्यत्र स्थापयितुमलम् ।। [भा. १९४२ ] एवं ठितो ठवेइ अप्पाण परस्स गोवि सो गावो । अट्टितो न वेइ, परं न यतं ठवियं चिरं होई ।।
वृ- एवं पूर्वं गणधरपदे अस्थापित एतेपूपकरणादिस्थानेषु स्थितः सन् आत्मनः परस्य चैतेषु स्थानेषु स्थापयति, स्थापयिता भवति । गोवृष इव गाः स्वस्थाने, यः पुनः पूर्वमेतेषु स्थानेषु स्थितः सपरमुपलक्षणमेतत्। आत्मानं च न स्थापयति स्वयं तत्राव्याप्तत्वात् । न च तत्स्थापितं चिरं भवति, । कस्मादिति चेदुच्यते स यदान्यान् उपकरणादिष्वनुद्यच्छतः शिक्षयति । यथा सति बले किं यूयं स्वशक्त्या नोद्यच्छथानुद्यच्छंतो हि वैयावृत्त्यफलात् भ्रश्चथ, तदा ते चिन्तयेयुंः व यदि वैयावृत्त्यफलमभविष्यत्ततस्त्वमप्येतेषु स्थानेपूद्यस्यथा इति । अथवा वैयावृत्त्यफलं श्रद्दधाना अपि खग्गुडत्वेनैवं मन्यरेन एवं जानन्तो यूयं किं पूर्व नावर्तिध्वमिति । ।
सम्प्रति गोवृष इव गा इति दृष्टान्तं भावयति
[भा. १९४३ ]
४८
पउरतणपाणियाइं, वग्णाई रहियाई खुडुजंतूहिं । नेवि सो गोणीओ, जाणइ य उवट्टकालं च ।
'वृ- वृषो बलीवर्दो गोधनानि प्रचुरतृणपानीयानि तथा क्षुद्रजन्तुभिः क्षुद्रप्राणिभीरहितानिनयति जानाति च, उपस्थानकालमभ्यागमबेलां ज्ञात्वा च स्वास्थानमानयति । एवमभिनवस्थापित आचार्यो गच्छं स्वस्वव्यापारे नियोजयन् परिपालयति । अत्रैव दृष्टान्तान्तरमाह
[ भा. १९४४ ]
जह गयकुलसंभूतो, गिरिकंदर-विसमवडयदुग्गेसु । परिवहति अपरितंतो, निययसरीरुग्गते दंते । ।
वृ- यथा गजकुलसंभूतोऽनेन जात्यतामाह-गिरिकन्दरेषु गिरिगुहाषु विषमकटकेषु विषमेषु गिरिपादेषु उग्रेषु वा परित्रान्तोऽश्रान्तः सन् निजशरीरोद्गतान् दंतान् परिवहति
[भा. १९४५ ] इय पवयणभत्तिगतो, साहम्मियवच्छलो असढभावो । परिवहइ साहबग्गं खेत्तविसमकालदुग्गेसु ।।
वृ- इति अनेन गजदृष्टान्तप्रकारेण। प्रवचनेभक्तिगतो गच्छवाहकत्वं प्रवचनभक्तिं मन्यमानः साधर्मिकवत्सलो लिङ्गप्रवचनाभ्यां ये साधर्मिकास्तद्वात्सल्यपरायणोऽशठभावोऽमायावी विषमेमु क्षेत्रेषु विषमेषु च कालेषु दुर्भिक्षमार्याद्युपद्रवव्रातसंकुलेषु दुर्गेषु च साधुवर्ग परिवहति तस्य समीपे स्थातव्यं । । गतमसतीति द्वारमिदानीमागमनद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org