________________
उद्देश : - ४, मूल - १०५, [भा. १९६४ ] आदिशब्दात् श्रावकग्रहादिपरिग्रहः । । एतदेव भावयति
[भा. १९६५ ]
अहणुव्वासि य सकवाड निव्विले निच्चले वसति सुन्नो । तस्सा सइ सन्निघरे इत्थीरहिते वसेज्जा वा ।।
वृ- अधुना साम्प्रतमुद्वासितमधुनोद्वासितं सकपाटं कपाटसहितमन्यथा स्तेनादिप्रवेशसंभवात निर्बिलं बिलरहितमन्यथा सर्पादिसंभवात् । निश्चलं न जराजीर्णतया पतितुं प्रवृत्तं अमीषां च चतुर्णां पदानां षोडशभङ्गः । तत्र प्रथमो भङ्गः शुद्धः शेषा अशुद्वास्तत आह-इत्थंभूते शून्ये शून्यगृहे वसति तस्य शून्यगृहस्यासत्यभावे संज्ञिगृहे श्रावकगृहे सोऽपि श्रावको द्विधा संभवति सस्त्रीकः स्त्रीरहितो वा । तत्र स्त्रीरहिते वसेत् ।
[भा. १९६६ ]
५३
सहिए वा अंतो बहि अंतो वीसु घरकुडीए वा । तस्सा सति निइयादिसु वसेज्जउ इमाए जयणाए ।।
वृ- स्त्रीरहितस्य श्रावकगृहस्याभावे सहिते वा स्त्रीसहिते वा श्रावकगृहे तस्य गृहस्यान्तर्बहिर्वा विविक्ते प्रदेशे वसेत् । अन्यथा प्रायश्चित्तं चतुर्गरु । तस्याप्यभावे तस्य श्रावकगृहस्य बहिः पुरतः पृष्टतः पार्श्वतो वा यदि वान्तर्गृहस्य कुटी समस्ति तस्यां वसेत् । तस्यापि कुटीरकस्यासत्यभावे नैत्यिकादिष्वपि आदिशब्दात् पार्श्वस्थादिपरिग्रहोऽनया वक्ष्यमाणया यतनया वसेत् ।। एतावता मूलद्वारगाथोपन्यस्तं निवेदद्वारमगमत् । यतनाद्वारमापतितमिदानीं तामेव यतनामाह-
[भा. १९६७ ]
निइयादि उवहि भत्ते, सेज्जा सुद्धाय उत्तरे मूले । संजइरहिएकाले अकाल सज्झाए अभिक्खं च ।।
वृ- ये नैत्यिकादय उपधी भक्ते शय्यायां च उत्तरगुणैर्मूलगुणैर्वा शुद्धाः । किमुक्तं भवति ? ये उत्तरगुणैर्मूलगुणैर्वा शुद्धां शय्यां गवेषयन्ति शुद्धं भक्तं शुद्धमुपधिं तेषु वसेत्, तत्रापि संयतीरहिते तदभावे संयतीसहितेऽपि । ताश्च संयत्यो द्विधा कालचारिण्योऽकालचारिणश्च तंत्र याः पाक्षिकादिष्वागच्छन्तिताः कालचारिण्यस्तद्व्यतिरेकेणागच्छन्त्योऽकालचारिण्यः स्वाध्यायनिमित्तमभीक्ष्णं चशब्दात् भक्तपानं दातुं गृहीतुं वा कन्दर्पार्थं वा तत्राकालचारिणीषु बहवो दोषाः कालचारिणीष्वल्पतरा इति संयतीरहिताभावे कालचारिणीभिः संयतीभिः सहिते वस्तव्यम् ।। एतदेव सप्रपञ्चमभिधातुकाम आह [भा. १९६८ ]
सिजुवहि भत्तसुद्धे, संजइ रहिए य भंग सोलसओ । संजइ अकालचारिणी सहिए बहुदोसला वसही ॥
वृ- शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीरहित इति चतुर्षु पदेषु सप्रतिपक्षेषु भङ्गाः षोडश । तद्यथा-शय्याशुद्धः उपधिशुद्धः भक्तशुद्धः संयतीरहित इति प्रथमः । शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीसहित इति द्वितीयः । इत्यादिप्रस्तारश्च कार्यः, एतेषु च षोडशसु भङ्गेषु मध्ये यत्र यत्र संयत्यस्तत्र तत्र कालचारिणीभिः सहिते वस्तव्यम् । नाकालचारिणीभिर्यत आहसंयतिभिरकालचारिणीभिः सहिते 'बहुदोषला' बहुदोषा वसतिरिति आह पूर्वमुपधिभक्तशय्यां शुद्धा इत्युक्तमिदानीं भङ्गचिन्तायां प्रथमतः शय्योक्ता । तत्र किं कारणमत आह
[भा. १९६९ ] सागारितेनाहिम वासदोसा, दुसोहिया तत्थ उ होइ सेज्जा ।. वत्थन्न पाणाणिव तत्थ ठिच्चा, गिण्हंति जोगानुवभुंजते वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org