________________
उद्देशक :- १०, मूलं - २८५, [ भा. ४६८८ ]
५४३
प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं, इति जोउवदेस सो नयो नाम इति, एवमुक्तेन प्रकारेण य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । उक्तो ज्ञाननयः । सम्प्रति क्रियानयावसरः । तद्दर्शनं चेदं क्रिकैव ऐहिकामुष्मिकफलप्राप्तिकारणं प्रधानं युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये गायामाह - नायम्मि गिण्हियव्वे इत्यादि अस्याः क्रियानयदर्शनानुसारेण व्याख्या ज्ञति गृहीतव्ये चार्थे ऐहिकाष्मिकफलप्राप्ति कारणं अर्थिना यतितव्यमेव यस्मात् प्रवृत्त्यादिलक्षणप्रयत्रव्यतिरेकेण न ज्ञानवतोऽपि अभिलषितार्थावाप्तिरुपजायते । तथा चोक्तमन्यैरपि
-
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्री भक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥
तथा आमुष्मिकफलार्थिनापि क्रियैव कर्तव्या । तथा च भगवद्वचनमप्येवमेव व्यवस्थितं । चेइय कुलगणसंघे आयरियाण च पवयणसुए य । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेन ॥
इतश्चेदमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम् । सुबहुपी सुयमहियं किं काहीचरणविप्पहीनस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥
दृशि क्रिया विकलत्वात्तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं चारित्रंक्रियेत्यनर्थान्तरत्वात्। क्षायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव यस्मादर्हतो भगवतः समुत्पन्नकेवलज्ञानस्यापि तात्मुक्त्यवाप्तिः संभवति यावदखिलकर्मेन्धनानल भूता ह्रस्वपञ्चाक्षरोगरणकालमात्रा सर्वसंवररूपा चारित्रक्रिया नावाप्येत ततः क्रियैव प्रधानमैहिकामुष्मिक फल प्राप्तिकारणमिति । इति जो उपदेसो सो नयो नाम इति एवमुक्तेन प्रकारेण यः उपदेश: क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानयः इत्यर्थः । उक्तः क्रियानयः । इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्वं पक्षद्वयेऽपि युक्तिसंभवात् । आचार्य सह
भा.[४६८९ ] सव्वेसि पि नयानं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणठितो साहू ॥
वृ. सर्वेषामपि मूलनयानामपि शब्दात्तद्भेदानामपि नायानां द्रव्यास्तिकादीनां बहुविधवक्तव्यां सामान्यमेव विशेष एव उभयमेव परस्परनिरपेक्ष्यमित्यादिरूपाथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादि रूपां निशम्य श्रुत्वा तत्सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितश्चारित्रज्ञानस्थित: साधुर्यस्मात्सर्वे नया भावतो भावनिक्षेपमिच्छन्ति । तदेवं नयवक्तव्यतापि कृता भाष्यस्तुतिरायणमिदं गम्यकर्तृकत्वं गाथाद्वयम्
Jain Education International
कप्पववहाराणं भासं मुत्तूणं वित्थरं सव्वं । पुव्वायरिएहिं कयं सीसाणहिओवएसत्थं ॥ भवसयसहस्समहणं एवंतो यंति जे उकाहिति । कम्मरसयविप्पमुक्का मुक्खमविग्घेण गच्छंति ॥
For Private & Personal Use Only
www.jainelibrary.org