SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ - ५४२ व्यवहार-छेदसूत्रम्-२- १०/२८५ वेयावच्चे सुविहियं निम्मं निव्वाणमग्गस्स। वृ.यस्मात् युक्तिनिदर्शनंचास्ति तस्मात्सिद्धमेतत् आचार्यग्रहणेनतीर्थकरो गृहीतः।आचार्यदीनि च दशापि पदानि त्रयोदशगुणानि भवन्ति कर्तव्यानि। एकैकस्मिन् पदे त्रयोदशभिः पदैः वैयावृत्त्यकरणात्। एवं च सति वैयावृत्त्येवैयावृत्त्यविषये सूत्रे त्रिंशदुत्तरं स्थानानां शतं वर्णितं किं विशिष्टमित्याह-सुविहितानां प्रापणं निर्वाणमार्गस्य। _ भा.[४६८५] ववहारे दसमए दसविह साहुस्स जुत्तजोग्गस्स। एगंत निज्जरा से न हु नवरि कयम्मि सज्झाए। वृ. व्यवहारे दशमे उद्देशके यत् दशविधं वैयावृत्त्यमुक्तं तस्मिन्साधोयुक्तयोगस्यैकान्तनिर्जरा भवति। न हुनवरिकेवलं स्वाध्याये कृते से तस्यैकान्तनिर्जरति ।। भा.[४६८६] एसोनुगमो भणितो अहुणा उनउसो य होइ दुविहो उ; नाण नओ चरणनओ ते समासं तु वुच्छामि। वृ. तदेवमेषोऽनुगमो भणितोऽधुना नयो वक्तव्यः । तत्र यद्यपि नया: शतसंख्यास्तथापि ते सर्वे नयद्वये अन्तर्भवन्ति। तत्र आह-नयो द्विविधो भवति, ज्ञाननयश्चरणनयो नाम क्रियानयस्तयोः समासं संक्षेपं वक्ष्यामि। तमेवाहभा.[४६८७] नायंमि गिण्हियवे अगिह्रियव्वंमि चेव अत्थंमि। जइयव्वमेव इई जो उवदेस सो नयो नाम॥ वृ. ज्ञाने सम्यक् परिच्छिने गृहीतव्ये उपादेये अग्रीहतव्येऽनुपादेये हेय इत्यर्थः । चशब्दः खलूभयो र्ग्रहीतव्याग्रहीतव्ययोरनुकर्षणार्थ: उपेक्षणीयवस्तुसमुच्चार्थो वा एवकारस्त्ववधारणे। तस्य चैवं व्यवहितप्रयोगः । ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये उपेक्षणीयेच नाज्ञाते अर्थे ऐहिकामुष्मिकरूपे तत्र ऐहिको ग्रहीतव्यः स्त्रक्चन्दनादिः, अग्रहीतव्यो विषशस्त्रकंटकादिः, उपेक्षणीयस्तृणादिरामुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, उपेक्षणीयो विवक्षया अभ्युदयादिस्तास्मिन्नर्थे यतितव्यमेवेति अनुस्वालोपात्एवममुनाक्रणेज्ञानपुरस्सरणरूपेण ऐहिकामुष्मिकफलप्राप्त्यर्थिना सत्वेन यतितव्यं प्रवृत्त्यादिलक्षणो यत्नः कार्यः। इत्थं चैतदङ्गीकर्तव्यं सम्यक ज्ञानप्रवर्तमानस्य फलविसंवाददर्शनात्तथा चोक्तमन्यैरपि विज्ञप्तिः फलदापुंसान क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलसंवाददर्शनात्॥" तथा मुष्मिक फलनाथिनापिज्ञात एव यतितव्यमागमोऽपि तथा प्रतिपादनात्। उक्तं च-"पढमं नाणं ततो दया एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही किंवा नाहीच्छेयपावगं" ॥ इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियापि निषिद्धा। तथा चागमःभा.[४६८८] गीयत्थो अविहारो बीइतो गीयत्थमीसितो भणितो। एत्तो तइय विहारो नाणुन्नातो जिनवरेहि। वृ.नखल्वन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यते इत्यभिप्रायः। एवं तावन्क्षायोपशमिकं ज्ञानमाधिकृत्योक्तम्। क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव प्रतिपत्तव्यं । यस्मादर्हतोऽपि भवाम्भोधितटस्थस्यदीक्षाप्रतिपन्नस्य तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिरुपजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति तस्मात् ज्ञानमेव Jain Education International For Private & Personal Use Only For privat www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy