SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-१०, मूलं-२५५, [ भा. ४५६९] ५२३ मू. ( २५५) चत्तारि पुरिसज्जाया पन्नत्ता तं जहा-गणसोहकरे नाम एगे नो मानकरे एगे मानकरे नो गणसोहकरे, एगे गणसोहकरे विमानकरेवि, एगे नो गणसोहकरे नो मानकरे। भा.[४५७०] एवं गणसोहंमि वि चउरो पुरिसा हवंति नायव्वा। सो भावेत्ति गणं खल इमेहिं ते कारणेहिं तु॥ वृ. एवमुक्तेन प्रकारेण शोभायामपि कर्तव्यायां चत्वारः पुरुषा भवन्ति ज्ञातव्याः । तच्च सूत्रपाठसिद्धा एव। गणशोभाकरो नाम यो गणं शोभयति ते च गणं शोभापयन्ति शोभा खलु एभिर्वक्ष्यमानैः कारणैः प्रयोननैर्वादादिभिस्तानेव वाद्यादीन् दर्शयतिभा.[४५७१] गणसोभी खलु वादी उद्देसे सो उ पढमए भणितो। धम्मकहि निमित्ती वा विज्जातिसएण वा जुत्तो।। व.गणं वादप्रदानत: शोभीयतीत्येवं शीलो: गणशोभी खल वादी। स च वादेन यथा गणं शोभयति तथा प्रथमे उद्देशके भणितः न केवलं वादी गणशोभी किन्तु धर्मकथी। तथाहिधर्मकथायां यथोक्तं स्वरूपमाक्षेपतः कथयतो जनयपि गणस्य महतीं शोभा तथा निमित्ती अतीतादिनिमित्त कथयतो विद्यातिशयेन वा युक्तो गुणशोभी महतोऽपि सङ्घप्रयोजनस्य विद्याप्रभावतः साधनात्।। मू.( २५६)चत्तारिपुरिसज्जाया पन्नत्ता। तं जहा-गणसोही करे नामंएगे नो मानकरे एगे मानकरे, नो गणसोहीकरे। एगे गणसोहिकरेवि मानकरेवि, एगे नो गणसोहि नो मानकरे। भा.[४५७२] एयं गणसोहीकरा चउरो पुरिसा हवंति विन्नेया। किह पुण गणस्स सोहिं करेज्ज सो कारणेमेहिं ।। वृ.एवमुक्तेन प्रकारेण गणशोधिकाराश्चत्वारः पुरुषा भवन्ति विज्ञेयाः । कथं पुनः स प्रथमस्तृतीयो वा गणस्य शोधिं कुर्यात्। सूरिराह-एभिर्वक्ष्यमानैः कारणैरोजस्वित्वादिभिस्तान्येवाहभा.[४५७३] एगदव्वेगघरएगालोअणाए सका उ। उयस्सि सम्मओ संथुओ य तं दुप्पवेसंच। वृ. एकस्मिन् गृहेऽनेकैः संघाटकैः एकं द्रव्यं लब्धं । तद्यथा एकेन संघाटकेन एकस्मिन् गृहे पूपलिका लब्धा । अन्येनापि संघाटकेन तस्मिन्नेव गृहे तादृश्य एव पूपलिका लब्धाः । एवं तृतीयेन चतुर्थेन पञ्चमेन वा लब्धाः। तैः सन्निवृत्तैर्गुरुसमीपमागत्यालोचितं दर्शिताश्च पूपूलिकास्ततो जाता सर्वेषां शङ्का जाता उद्गमाऽशुद्धा भवेयुः एवं शङ्किते गत्वा तद्गृहं द्रष्टव्यम्। किं युष्माकं गृहेऽद्य संखडिभत्तलाभनकं समागतमथवा प्राघूर्णकाः समागता यदि वा साधूनामर्थाय कृतः क्रीता वा । तेऽन्न च गृहे भिक्षावेलायां न कोऽपि प्रवेशं लभते । तत्र साधुरेक ओजस्वी गृहमानुषाणां संस्तुतः। संस्तुततया च तस्मिन् गृहे संमतो अनिवारितप्रसरस्तत् दुःप्रवेश गृहं प्रविशति। प्रविश्य च नि:शंकितं करोति। अत्र योऽप्रेषितो गत्वा निःशङ्की(कृ)त्य समागच्छति स प्रथमपुरुषजातः यस्तु मानेन गच्छति ।। मू.( २५७)चत्तारिपुरिसज्जाया तंजहा-रूवं नामेगे जहइ नो धम्म, धम्मं नामेगे जहइ नो रूवंएगे रूवपि जहइ धम्मपि जहइ, एगे नो रूवं जहइ नो धम्मं जहइ। वृ.अस्य सम्बन्धमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy