SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४५१४] भा. [४५१४] ५१५ सो तंपि चेव दव्वे खेत्ते काले य कारणें पुरिसे । तारिस चिय भुया, कुव्वं आराहगो होइ ॥ वृ. अथवेति प्रकारान्तरे येनान्यदा परस्य शोधिः क्रियमाणा दृष्टा स तत् सर्वं स्मरति । यथा एवं भूतेषु द्रव्यादिष्वेवंभूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति पुनरन्यदास्य पुरुषस्योपलक्षणमेतदन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव तादृश एवेत्यर्थः । द्रव्ये क्षेत्रे काले चशब्दाद्भावे च तादृश एव कारणे तस्मिन्नेव तादृशे वा पुरुषे तादृशः कुर्वन् रागेण वा दोषेण वा अन्यथा प्रायश्चित्तं ददानो वर्तते। तदा स न हु नैवं आराधको भवति । अथ स तस्मिन्नैव द्रव्ये क्षेत्रै काले भावे च कारणे पुरुषे च तादृशं करोति, स तदा आराधको भवति, धारणा व्यवहारस्यैव पुनरन्यथा प्रकारमाह भा. [४५१५] वेयावच्चकरो वा सीसो वा देसहिंडगो वावि । भा. [४५१६] दुम्मेहत्ता न तरइ आराहेउ बहुं जो उ ।। तस्स उ उद्धरिऊण अत्थपयाइं देंति आयरियो | जेहिं उ करेइ कज्जं आहारेन्तो उ सो देस ॥ वृ. यथाचार्याणां वैयावृत्यकारो यो वा संमतः शिष्यो यस्तु वा देशहिण्डको देशदर्शनं कृर्वतः सहाय आसीत् । स समस्तच्छेदश्रुतार्थं दुर्मेधस्त्वान्नावधारयितु शक्नोति, ततस्तस्योध्धृत्यानुगृहात् कानिचिदर्थपदान्याचार्या ददति यैः सं च्छेदश्रुतस्य देशमवधारयन् कार्यं करोति, एष धारणाव्यवहारः । उपसंहारमाह भा. [४५१७] धारणाववहारो सो जहक्कमं वन्नितो समासेन । जीणं ववहारं सुण वच्छ जहक्कमं वुच्छं ॥ वृ. एष धारणाव्यवहारो यथाक्रमं समासेन वर्णितः साम्प्रतं जीतेन व्यवहारं यथाक्रमं वक्ष्ये, तं वत्स वक्ष्यमाणं शृणु। तथा चाह भा. [४५१८] वत्तनुवत्तपवत्तो बहुसो अनुवत्तिउ महाजनेनं । एसो यजीयकप्पो पंचमओ होइ ववहारो ॥ वृ. यो व्यवहारो वृत्त एकवारं प्रवृत्तो भूयः प्रवृत्तो वारद्वयं प्रवृत्त इति भावः तथा बहुशो ऽनेकवारं प्रवृत्तः महाजनेन चानुर्तिते एष पञ्चमको जीतकल्पो व्यवहारो भवति । वृत्तादिपदानां व्याख्यानमाह भा. [४५१९] वत्तोनामं एक्कसि अनुवत्तो जो पुणो बितिय वारं, तइयवारं पवत्तो परिग्गहितो महाजणेण ॥ वृ. एक्कसिमेकवारं यः प्रवृत्तः स प्रवृत्तो नाम, यः पुनर्द्वितीयवारं प्रवृत्तः सोऽनुवृत्तः तृतीयवारं वृत्तः प्रवृत्तोऽनुवृत्तः प्रवृत्तोऽनुवर्तितो स परिगृहीतो महाजनेनात्र परस्य प्रश्नमाहचोदेती वोच्छिन्नो सिद्धपहे तइयगम्मि पुरिसजुगे । भा. [४५२०] वोच्छित्रे तिविहे संजमंमि जीएण ववहारो ॥ वृ. परश्चोदयति कि तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने च त्रिविधे संयमे परिहारविशुद्धप्रभृतिके जीतेन व्यवहारः । अत्र केचिदुत्तरमाहु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy