SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५१४ व्यवहार-छेदसूत्रम्-२- १०/२५१ यस्य बह्यपि श्रुतं न विस्मृतिपथमुपयाति स श्रुतबहुश्चुतः । अथवा बहुश्रुतोऽपि सन् यस्तस्योपदेशेन वर्तते स मार्गानुसारि श्रुतत्वात् सुश्रुत बहुश्रुतः तथा तस्मिन् तथा विशिष्टो विनयौचित्यान्वितो वाक् परिपाको विशुद्धिर्यश्च यस्मिन् पुरुषे प्रयोक्तव्यः । एतदेवाहभा. [४५०६] एएसु धीरपुरिसा पुरिसजाएसु किंचि खलिएसु । - रहिएवि धारयंता जहारिहं देंति पच्छित्तं ।। वृ. एतेष्वनन्तरोदिते गुणसम्पन्नेषु पुरुषजातेषु किचिन् मनाक् प्रमादवशान्मूलगुणविषये उत्तरगुणविषये वा स्खलितेषु रहितेऽपि असत्यप्यादिभे व्यवहारत्रये धीरपुरुषा अर्थपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा यथार्ह ददति प्रायश्चित्तं । सम्प्रति रहिएवि धारइत्ता इतस्य व्याख्यानमाहभा.[४५०७] रहिए नाम असन्ने आइल्लम्मि ववहारतियगंमि । ताहेवि धारइत्ता वीमंसेऊण जं भणियं ।। वृ. रहिते नाम असति अविद्यमानके व्यवहारत्रिके सति ततोपि धारयित्वा यद्भणिते भवति ।किमुक्त भवति? विमृश्य पूर्वालोचनेन देशकालाद्यपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य किमित्याहभा.[४५०८] पुरिसस्स अइयारं वियारइत्ताण जस्स जं जोग्गं । तं देंति उ पच्छित्तं जेणं देंती उतं सुणए । ७. पुरुषस्यातीचारं द्रव्यतः क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदह प्रायश्चित्तं तस्य तत् ददाति । आचार्यः प्राह-येन ददाति तत् श्रृणु । तदेवाहभा.[४५०९] जो धारितो सुत्तत्थो अनुओगविहीए धीरपुरिसेहि। आलीणप्रलीणेहिं जयणाजुत्तेहिं दंतेहि। वृ. यो नाम धीरपुरुषैरालीनप्रलीनैर्यनायुक्तैश्चानुयोगविधौ व्याख्यानवेलातां श्रुतस्य धारितोऽविस्मृतीकृतस्तेन ददति साम्प्रत मालीनादि पदानां व्याख्यानमाहभा.[४५१०] अल्लीणो नाणादिसु पदे पदे लीआ उ होंति पलीणा। कोहादी वा पलयं जेसि गया ते पलीणा उ॥ भा.[४५११] जयणाजुत्ता पयत्तवा दंतो जो उवरतो उ पावेहि। __ अहवा दंतो इंदिय दमेण नोइंदिएणं च ।। वृ. ज्ञानदिषु आ समन्तात् लीना आलीनाः पदे पदे लीना भवन्ति प्रलीयनाऽथवा येषां क्रोधादयः प्रलयं गतास्ते प्रलीनाः । प्रकर्षेण लीना लयं विनाशं गताः क्रोधादयो येषामिति व्युत्पत्तेः । यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान् दान्तो यः पापेभ्य उपरतोऽथवा दान्तो नाम इन्द्रियदमेन नोइन्द्रियदमेन चान्यतः । तदेवं च्छेदश्रुतार्थधरणवशतो धारणाव्यवहार उक्तः। भा.[४५१२] अहवा जेणनइया दिट्ठा सोही परस्स कीरंति । तारिसयं चेव पुणो उप्पन्नं कारणं तस्स ।। भा.[४५१३] सो तंमि चेव दव्वे खेत्ते काले य कारिणे पुरिसो। __ तारिसयं अकरेंतो न हु सो आराहतो होइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy