SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ५०८ व्यवहार-छेदसूत्रम्-२- १०/२५१ २। चारित्रे अनेषणादोषतः स्त्रीदोषतो वा चारित्ररक्षणायः ततः स्थानादन्यत्र गमने ३ । तपसि विकृष्टतपो निमित्तं धृतपानादि प्रवचने प्रवचनरक्षादिनिमित्तं विष्णुकुमारादिवि वैक्रियकुर्वाणादि ५। समितावीर्यासमित्यादिरक्षणनिमित्तं चक्षुः सावद्यचिकित्साकरणादि६। गुप्तौ भावितकारणतो विकटपाने कृते मनोगुप्तादिरक्षणनिमित्तमकल्पादि७। साधर्मिकवात्सल्यनिमित्तं ८ । कुलतः कार्यनिमित्तं ९ । एवं गणकार्यनिमित्तः १०, सङ्घकार्यनिमित्तं ११, आचार्यनिमित्तं १२, असहनिमित्तं १३, ग्लाननिमित्तं १४, प्रतिषिद्धबालदीक्षितसमाधिनिमित्तं १५ । प्रतिषिद्धवृद्धदीक्षितसमाधिनिमित्तं १६, उदके जलप्लवे १७, अग्नौ दवाग्न्यादौ १८, चौरे शरीरोपकरणापहारिणी १९ । श्वापदे हिंसा व्याघ्रादावा पतित यदृक्षारोहणादि २० । तथा भये म्लेच्छादिसमुत्थे २१ कान्तारे अट्यमानभक्तपानेऽध्वनि २२ आपदि द्रव्याद्यापत्सु २३। व्यसनं मद्यपानगीतगानादिविषये पूर्वाभ्यासतः प्रवृत्ति २४ । तत्र यद्यतनया प्रतिसेवते स कल्पः । एतदेवाहभा.[४४६३] एयन्नतरागाढे दंसणनाणे चरणसालंबो। परिसेविउं कयाई होइ समत्थो पसत्थेसु॥ वृ. एतेषामनन्तरोदितानामन्यतरस्मिन् आगाढे समुत्थितदर्शनज्ञानचरणसालम्बः प्रतिसेव्याकल्प्यप्रतिसेवना कृत्वा कदाचित्प्रशस्तेषु शुभेषु प्रयोजनेषु कर्तव्येषु समर्थो भवति । तत एषा कल्पिका प्रतिसेवना। भा.[४४६४] ट्ठावेउ दप्पकप्पे हेट्ठा दप्पस्स दसपए ट्ठावे। कप्पस्स चउव्वीसति एतेसिमह टारसपयाइं॥ ७. प्रथमतो दर्पकल्पौ स्थापयित्वा तदनन्तरं दर्पस्याधस्तात् दादीनि पदानि स्थाप्य (स्थापयित्वा?) कल्पस्याधो दर्शनादीनि चतुर्विंशति पदानी तेषां दश चतुर्विंशति पदानामधो व्रतषट्कादीन्याष्टादशपदानि स्थापयेत् सम्प्रत्यालोचनाक्रममाहभा.[४४६५] पढमस्स य कज्जस्स य पढमेण पएण सेवियं जंतु। ___ पढमे छक्के अब्भितंर तु पढमं भवे ट्ठाणं ।। वृ. इह प्रथमं कार्यं दर्पलक्षणं तस्य प्रथमतः स्थापयित्वा तस्य प्रथमस्य कार्यस्य सम्बन्धिना प्रथमेन दर्पलक्षणेन यत्सेवितं कथंभूतमित्याह-प्रथमे षट्के व्रतषट्करूपे अभ्यन्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं प्राणातिपातलक्षणं भवेत्स्थानं । एवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजन च वक्तव्यम् । पाठोऽप्येवमुच्चारणीयः। भा.[४४६६] पढमस्स य कज्जस्स य पढमेन पएण सेवियं जंतु । पढमे छक्के अभितरं तु बीयं भवे ट्ठाणं ।। वृ. एवं तइयं भवे ट्ठाणं जाव छटुं भवे ट्ठाणं । एतदेव कथयन्नाहभा.[४४६७] पढमस्स य कज्जस्स य पढमेन पएण सेवियं जंतु। पढमे छक्के अभितरंमि सेसुसुवि पएसु ॥ वृ. अक्षरगमनिका प्राग्वत् । नवरं सेसेसु वि पएसु इति आद्यं पादत्रयमुञ्चता शेषेष्वपि मृषावादादिषु बिइयं भवे ट्ठाणं तइयं भवे ट्ठाणमित्यादि पदसंचारतो वक्तव्यम्। भा.[४४६८] पढमस्स य कज्जस्स य पढमेन पएण सेवियं जंतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy