SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ५०४. भा. [४४३५ ] समणस्स ऊत्तमट्ठे सल्लुद्धरणकरणे अभिमुहस्स । दूरत्था जत्थ भवे छत्तीसगुणा उ आयरिया || वृ. श्रमणस्य उत्तमार्थे भक्तप्रत्याख्याने व्यवसितस्य यत् किमति शल्यमनुध्धृतमास्त तदुद्धरणकरणे अभिमुखस्य तत्र प्रायश्चित्तव्यवहारे षट्त्रिशद्गुणा आचार्या दूरस्था भवेयुस्तत्राज्ञया व्यवहारः कथमित्याह भा. [४४३६ ] व्यवहार-छेदसूत्रम् -२-१० / २५१ अपरक्कमो सि जाओ गंतुंजे कारणं च उप्पन्नं । अठारसमन्नयरे वसणगतो इच्छिमो आणं ॥ वृ. स आलोचयितुकामश्चिन्तयति साम्प्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीपे गन्तुं न शक्नोमि कारणं च मम तत् पार्श्वगमननिमित्तं समुत्पन्नं यतोऽष्टादशानां व्रतषट्कादीनां अन्यतरस्मिन्नतीचारे व्यसनगतः पतितस्तस्मादिच्छाम्याज्ञाव्यवहारमिति । एतदेव सविशेषं भावयति । भा. [४४३७] अपरकम्मो तवस्सी गंतु जे सोहिकारगसमीवं । आगंतुं न वाएई सो सोहिकारोवि देसाउ ॥ वृ. स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमो । यस्यः समीप शोधि: कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति । भा. [४४३८] Jain Education International अह पट्टवेइ सीसं देसंतरगमणनट्ठचेट्ठागो । इच्छामज्जो काउं सोहिं तुब्भं सगासम्म ॥ वृ. अथानंतरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे शिष्यं आर्य ! युष्माकं सकाशे शोधिं कर्तुमिच्छामीत्येतत्कथयित्वा प्रेषयति । सोवि अपरक्कमगती सीसं पेसेइ धारणाकुसलं । यस्स दानि पुरओ करेइ सोहिं जहावत्तं ॥ भा. [४४३९] वृ. सोऽपि आलोचनाचार्योऽपराक्रमगतिर्न विद्यते पराक्रमो गतौ यस्येति विग्रह: शिष्यं धारणाकुशलं प्रेषयति यस्त्वालोचयितुकामेन प्रेषितस्तस्य सन्देशं कथयति । यथेदानीमेतस्य पुरतो यथावृत्तां शोधिं कुरु । भा. [४४४०] अपरक्कमो य सीसं आणापरिणामगं परिच्छेज्जा । रुक्खे यबीय काए सुत्ते वा मोहणाधारिं ॥ वृ. स आलोचनाचार्योऽपराक्रमः शिष्यमाज्ञापरिणामकं परीक्षेत किमेष आज्ञापरिणामकः किं वा नेति । आज्ञापरिणामको नाम यत् आज्ञाप्यते तत्कारणं न पृच्छति किमर्थमेतदिति किन्त्वाज्ञयैव कर्तव्यतया श्रद्दधाति । यदत्र कारणं तत् पूज्या एव जानते एवं यः परिणामयति स आज्ञापरिणामकस्तत्परीक्षा च वृक्षे बीजकाये च वक्ष्यमाणरीत्या कर्तव्या । आज्ञापरिणामत्वं परीक्ष्य पुनरिदं परीक्षणीयं यथा किमेषोऽवग्रहेण समर्थो धारणासमर्थश्च किं वा नेति । तत्राध्ययनादिपरीक्षया सूत्रे चशब्दादर्थे वाऽमोहनं मोहरहितं समस्तमासमन्तात् धारयतीत्येवं शीलोऽमोहनाधारी तं परीक्षेत तत्र वृक्षेणाज्ञापरिणामित्वपरीक्षामाह भा. [४४४१] दद्रुमहंते रुक्खोअ गणिउ चेइ विलग्गउं डेव । अपरिणयवेति तहिं न वट्टइ रुक्खेवि आरोढुं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy