________________
उद्देशकः-१०, मूलं-२५१, [भा. ४४२६ ]
५०३ पादपोपगमनं च कर्तुमसमर्थः स इग्निनीमरणं ततोऽपि समर्थतर: पादपोगमं एतानि च मरणानि कुर्वन्तो यथा यथोपरितनमरणस्तथा तथा महानिर्जरतरा मूलोपसंहारमाहभा.[४४२७] एसागमववहारो जहोवएसं जहक्कमं कहिओ।
एत्तो सुयववहारं सुण वच्छ जहानुपुव्वीए ।। वृ.एषोऽनन्तरोदित आगमव्यवहारो यथोपदेशं यथाक्रमं विकथित अत ऊर्ध्वं यथानुपूर्व्या परिपाट्य कथ्यमानं श्रुतव्यवहारं च शृणु तमेव कथयतिभा.[४४२८] निज्जूढं चोद्दसपुव्विएण जं भद्दबाहुणा सुत्तं ।
पंचविहो ववहारो दुवालसंगस्स नवतीतं ।। वृ.यत् भद्रबाहुस्वामिना चर्तुदशपूविकेण चतुर्दशपूर्वधरेण पञ्चविधो व्यवहार: पञ्चविधव्यवहारात्मकं नियूढं द्वादशाङ्गस्य नवनीतमिव नवनीतं मथितस्य नवनीतमेव द्वादशाङ्गस्य सारामित्यर्थः । एतेन द्वादशाङ्गानि ढमावेदितव्यम् तत् सूत्रं श्रुतमुच्यते तेन व्यवहार: श्रुतव्यवहारः। भा.[४४२९] जो सुयमहिज्जइ बहुं सुतत्थं च निउणं न याणेइ ।
कप्पे ववहारंभिय सो न पमाणं सुयहराणं ।। भा. [४४३०] जो सुयमहिज्जइ बहुं सुत्तत्थं च निउणं विजाणाति ।
कप्पे ववहारंमि य सो उ पमाणं सुयहराणं । वृ. यः कल्पव्यवहारे च सूत्रं बह्वधीतेन सूत्रार्थं निपुणं न जानाति स व्यवहारविषये न प्रमाणं श्रुतधराणां, यस्तु कल्पे व्यवहारे च सूत्रं बह्वधीते सूत्रार्थं च निपुणं विजानाति, स प्रमाणं व्यवहारे श्रुतधराणां।। भा. [४४३१] कप्पस्स य निज्जुत्तिं ववहारस्स व परमनिउणस्स;
जो अत्थतो न याणइ ववहारी सो न णुनातो।। भा.[४४३२ कप्पस्स य निज्जुत्तिं ववहारस्स व परमनिउणस्स।
जो अत्थतो वियाणइ ववहारी सो अणुन्नातो। वृ. कल्पस्य कल्पाध्ययनस्य व्यवहारस्य च परमनिपुणस्य यो नियुक्तिमर्थतो न जानाति स व्यवहारी नानुज्ञातः । यस्तु कल्पस्य व्यवहारस्य च परमनिपुणस्य नियुक्तिमर्थतो जानाति स व्यवहारी अनुज्ञातः।। भा. [४४३३] तं चेवनुमज्जते ववहारविहिं पउंजंति जहुत्तं ।
एसो सुअववहारी पन्नत्तो धीरपुरिसेहिं ।। वृ. कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्यवहारात्मकं सूत्रं नियूढं तदेवानुमज्जननिपुणतरार्थं परिभावनेन तन्मध्ये प्रवशिन् व्यवहारविधिं यथोक्तं सूत्रमुच्चार्य तस्यार्थं यः प्रयुक्ते स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञप्तः।। भा.[४४३४] एसो सुयववहारो जहोवएसं जहक्कम भणितो।
___आणाए ववहारं सुण वच्छ जहक्कम वुच्छं। वृ. एष श्रुतव्यवहारो यथोपदेशं यथाक्रमं कथितः अत ऊर्ध्वमाज्ञया व्यवहारं यथाक्रम यथा वक्ष्ये तं च वक्ष्यमाणं वत्स शृणु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org