________________
४६
व्यवहार-छेदसूत्रम् - २-४/१०५
नाणे चरणे जोगा वहाउ ते अनुन्नाया ।।
वृ- आचार्या उपाध्यायाश्च जिनैस्तीर्थकुद्भिर्न शिल्पार्थाः शिल्पशिक्षणनिमित्तमनुज्ञाताः कै कारणेः पुनरनुज्ञातास्तत आह-ज्ञाने चरणे च ये योगास्तेमाषावहाः प्रापका यतो भविष्यन्ति ततस्ते अनुज्ञाता ज्ञानचरणस्फातिनिमित्तमनुज्ञाता इत्यर्थः । अपि चेदृशा आचार्या उपाध्याया अनुज्ञाताः
[भा. १९३० ] नाण चरणे निउत्ता जा पुव्व पुरुविया चरणसेढी । सुहसीलट्ठाणविजढे, निच्चं सिक्खावणा कुसला ।।
वृ- ज्ञाने एकग्रहणात्तज्जातीयस्य ग्रहणमिति न्यायाद्दर्शने चारित्रे च नियुक्ताः सततोहतास्तथा । सुखशीलाः पार्श्वस्थादयः तेषां स्थानं श्रियते सेवन्तेतद्विजढे तद्रहिते, या पूर्व कल्पाध्ययने कृतिकर्मसूत्रे चरणश्रेणिः प्ररूपिता तवां स्थिताः तथा नित्यं सदा शिक्षापनायां ग्रहणशिक्षायामासेवनाशिक्षायां च ग्राहयितव्यायां कुशलाः समर्थाः ईदृशां समीपमुपगम्योपसम्पत्तव्यम् । । गतं परिच्छिहाणित्ति द्वारमिदानीमसतित्ति द्वारमाह[ भा. १९३१]
जेवि पडिच्छित सो, कालगतो सो वि होइ आहच्च । सोविय सावेक्खो वा निरवेक्खो वा गुरू आसि ।।
वृ- येनापि स प्रतीच्छितो यस्य समीपे सशिष्यपरिवार उपसम्पन्न सोऽपि आहच्च कदाचित् कालगतो भवेत् सोऽपि च गूरूः कालगतः सापेक्षो वा आसीन्निरपेक्षो वा, तत्रयः सापेक्षः सोऽमुं विधिं करोति । । [भा. १९३२] सावेक्खो सीसगणं, संगहकारेइ आनुपुव्वीए । पडिच्छागय वेत्ति, एस वियाणे अह महल्लो ।।
स्वदीक्षितशिष्यसमूहभिनवस्थापितस्य संग्रहमानुपूर्व्यानुपूर्वीकथनेन
वृ- सापेक्षः शिष्यगणं कारयति । यथा पूर्वं सुघर्मस्वामी गणघर आसीत् । ततस्तच्छिष्यो जम्बूस्वामी गणधर आसीत् । तस्यापि शिष्यः प्रभवः । एवं तावद्यावत् सम्प्रति वयमहमपिच । सम्प्रति महान् वृद्धीभूतस्ततो मयाऽमुको गणघरः स्थापितो वर्तते तस्याज्ञां कुर्यात् वैनविकादिकं च, तथा ज्ञानदर्शनादि प्रतीच्छादिनिमित्तमागता स्तानपि ब्रूते - एष मम स्थाने विज्ञायेत, ममैवैतस्य सम्प्रति वैनयिकादिकं कर्तव्यमित्यर्थः । अत्रैवार्थे दृष्टान्तमाह[भा. १९३३] जहराया व कुमार, रज्जे ठावेउमिच्छए जंतु । भड जोहे वेति तंग, सेवए तुब्भे कुमारंति ।। अहयं अतीमहल्लो, तेसिं वित्ती उ तेन दावे इ । सो पुन परिच्छिउणं, इमेण विहिणा उठावेइ ।।
[भा. १९३४]
वृ- यथा राजा यं कुमारं राज्ये स्थापयितुमिच्छति, तं प्रति भटान् योधांश्च ब्रूते । साम्प्रतमहमतीव महान् ततो यूयं सेवघ्वममुकं कुमारमिति । एवं तानुक्त्वा तेषां वृत्तीस्तेन कुमारेण दापयति येन त तद्नुरक्ता जायन्ते । स पुनः कुमारोऽनेन वक्ष्यमाणेन विधिना परीक्ष्य राज्ये स्थाप्यते । तमेव विधिमाह
[भा. १९३५ ]
परमन्न भुंज सुणगा छडुण दंडेन वारणं बितिए ।
भुंजइ देइय तइओ गस्स उदानं न इयरेसिं । ।
वृ- राजा बहूनां कुमाराणां मध्ये कतरं कुमारं युवराज स्थापयामीति विचिन्तयन् परीक्षानिमित्तं तान् सर्वान् कुमारान् शब्दापयित्वा तेषां पृथक् पृथक् स्थाले परमान्नं पायसं परिवेषयति । परिवेष्य शृङ्खलाबद्धान् शुनकान् व्याघ्रकल्पान् कुमारान् प्रति मोचयति । ते च शुनका वेगेन कुमारसमीप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org