________________
४८६
व्यवहार-छेदसूत्रम्-२- १०/२५१ श्रूयन्ते, नापीष्टानिष्टानि रूपाणि। एवं गन्धादिष्यपि भावनीयं। मन:संक्षोभकरणं च तत्र नास्ति, तत्र चतुःशालादिके द्वे वसती अनुज्ञाप्य प्रतिग्राह्ये आदिशब्दात् त्रिशालद्विशालादिपरिग्रहः वसतिद्वयं च गृहित्वा एकत्र भक्तप्रत्याख्याता स्थापत्ये अपरत्र शेषा गच्छ साधवः किं कारणमिति चेदुच्यते अशनादीनां गन्धेन भक्तप्रत्याख्यातुरभिलाषो माभूतिदि हेतोः। भा.[४३१४] पानगजोग्गाहारे उ ठन्ति से तत्थ जत्थ न उ इंति।
अपरिणया व सो वा अप्पच्छयगेहिं रक्खट्ठा ।। वृ. पानकं योग्यमाहारं च से भक्तप्रत्याख्यातुस्तत्र प्रदेशे वृषभाः स्थापयन्ति यत्र न तु नैव अपरिणता: साधवः स वा भक्तप्रत्याख्याता समागच्छन्ति । किं कारणं तत्र स्थापयन्तीत्यत आह-अप्रत्ययगृद्धिरक्षार्थं कृतभक्तप्रत्याख्यानेऽस्य दीयमानं दृष्ट्वा माभूदपरिणतानामप्रत्ययो भक्तप्रत्याख्यातस्तु तत् दृष्ट्वा गृद्धिरिति हेतोः । अथ्राह-यदि तेन भावतस्त्यक्त आहारस्ततः कथं तस्य गृद्धिरुपजायते । तत आहभा.[४३१५] भुत्तो भोगी पुरा जोवि गीयत्थो वि य भाविओ।
संते साहारधम्मेसु सो पि खिप्पं तु खुब्भए । वृ.योऽपि पुरा पूर्व भुक्तभोगी गीतार्थो भावितोऽपि च सोऽपि सत्सु आहारधर्मेषु आहारग्रहणधर्मेषु क्षिप्रं शीघ्रमाहारदर्शनतः क्षुभ्यति, स्वप्रतिज्ञां विलुप्याहारं याचते। तथाभा. [४३१६] पडिलोमानुलोभा वा विसया जत्थ दूरतो।
ट्ठावेत्ता तत्थ से निच्चं कहणा जाणेगस्सवि।। वृ.यत्र पडिलोमा अनुलोमा वा विषयाः दूरतस्तत्र तं स्थापयित्वा सेतस्य ज्ञानतोऽपि नित्यं कथना भवति । गतं वसतिद्वारमिदानिं निर्यापक द्वारमाहभा.[४३१७] पासत्थोसन्नकुसीलट्ठाण परिवज्जिया उ निज्जवगा।
पियधम्मवज्जभीरू गुणसम्पन्ना अपरितंता॥ वृ. पार्श्वस्थाऽवसन्नकुशीलस्थानपरिवर्जिताः प्रियधर्माणोऽवद्यभीरवो गुणसम्पन्ना अपरित्रान्ता अपरिश्रान्ता निर्यापका अथ पुनस्ते निर्यापकास्तस्य कृतभक्तप्रत्याख्यानस्य किं कुर्वन्ति कियंतो वा इष्यन्तेभा. [४३१८]उच्चत्त १ दार २ संथार ३ कहग ४ वादीअ ५ अग्ग दारम्मि। ६
भत्तो ७ पाण ८ विआरे ९ कहग १० दिसो १२ जे समत्था य ।। वृ.ये तं कृतभक्तप्रत्याख्यानं उद्वर्तयन्तन्ति परावर्तयन्ते च चत्वारः (१) ये अभ्यन्तरमूले तिष्ठन्ति तेऽपि चत्वारः (२) संस्तारकारका अपि चत्वारो ३ येऽपि तस्य धर्मं कथयन्ति, तेऽपि चत्वारः ४ वादिनो लोकस्योल्लण्ठवचनप्रतिकारिणश्चत्वार: ५ अग्रद्वारे ये तिष्ठन्ति तेऽपि चत्वारः ६ ये योग्यं भक्तमानयन्ति ते चत्वारः ७ पानकस्यापि तद्योग्यास्यानेतारश्चत्वारः ८ उच्चारपरिष्ठापकाश्चत्वारः ९ प्रश्रवणपरिष्ठापका अपि चत्वारः । १० बहिर्लोकस्य धर्मकथकाश्चत्वारः ११ चतसृष्वपि दिक्षु साहस्रकमल्लाश्चत्वारः । १२ एते द्वादशचतुष्कका अष्टाचत्वापिंशद्भवन्ति कीदृशा पुनरमी निर्यापका इत्यत आहभा.[४३१९] जो जारिसतो कालो भरहेरवएसु होइ वासेसु।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org