________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४३१९ ]
ते तारिया तइया अडयालीसं तु निज्जवगा |
वृ. यो यादृशः कालो भरतेष्वैरावतेषु च वर्षेषु भवति ते तादृशास्तत्कालानुरूपाणो निर्यापका अष्टचत्वारिंशदवसातव्याः ।
भा. [४३२०]
एए खलु उक्कोसा परिहायंता हवंति तिन्नेव । दो गीत्था तईए असुन्नकरणं जहन्नेणं ॥
४८७
वृ. एतेऽनन्तरोदितसंख्याकाः खलु उत्कर्षा उत्कृष्टास्तथैककपरिहान्या परिहीयमानास्तावद्भवन्ति यावज्जघन्येन कृतभक्तप्रत्याख्यानेन सह त्रयः । तत्र द्वौ गीतार्थी निर्यापकौ तृतीयो भक्तप्रत्याख्याताः तत्रायं च विधिरेकस्य गीतार्थस्य भक्तपानमार्गणाय गमनं, द्वितीयेन तृतीये तृतीयस्य भक्तप्रत्याख्यातुरशून्यकरणमेकस्तत्पार्श्वे तिष्ठित्यपरो भक्तपाने मार्गणाय गच्छतीति भाव: । गतं निर्यापकद्वारमधुना दव्वदायणे चरिमे इत्यस्य द्वारस्य व्याख्यानार्थमाहतस्स य चरिमाहारो इट्ठो दायव्वो तन्हाछेयट्ठा सव्वस्स चरिमकाले अतीव तण्हा समुप्पज्जे ||
भा. [४३२१]
वृ. भक्तप्रत्याख्यास्य सर्वस्यापि चरमकाले अतीवतृष्णा आहारकांक्षा समुत्पद्यते तेन तस्य भक्तप्रत्याख्यातुकामस्य तृष्णाच्छेदार्थमाहारकांक्षा व्यवच्छेदाय इष्टश्चरमाहारो दातव्यः । भा. [४३२२] नवविगति सत्तउयणा अट्ठारसवंजणुच्च पानं च । अनुपुव्विविहारीणं समाहिकामाण उवहरिडं |
वृ. नवविकृतयोऽनवगाहिमदशमाः शाल्यादिभेदतः सप्तविघओदनोऽष्टादशव्यञ्जनानि शास्त्रप्रसिद्धानि उच्चरमतिप्रशस्यं पानं द्राक्षापानादि एतत्सर्वमनुपूर्वी । विहारिणामानुपूर्व्या शनैराहारमोचनेन भक्तप्रत्याख्यानं प्राप्तवतां समाधिकामानां समाधिमभिलषतां समाधिकरण निमित्तमुपहृत्य दत्वा तस्य तृष्णाव्यवच्छेदः क्रियते अथवा
भा. [४३२३]
कालसहावानुमतो पुव्वं झुसितो सुओ व दिट्ठो वा । झोसिज्जइ सो से तह जयणाए चउव्विहाहारो ||
वृ.कालानुमतः स्वभावानुमतश्च तेन यः पूर्वमाहारो योषितः सेवतः स कथं साधुभिर्ज्ञात--- व्यः । ईदृश एतस्य काल स्वभावानुमतः आहारः श्रुतो वा कस्यापि कथनतो दृष्टो वा कदाचित्साक्षाद्दर्शनात् परिज्ञाको यथैतस्य ईदश आहारो रोचत इति । स चतुर्विधोऽशनपानखादिमस्वादिमरूपो यतनया प्रथमत उद्गमादि शुद्धस्य लाभे पञ्चकपरिहान्या याचित्वा से तस्य भक्त प्रत्याख्यातुकामस्य जोष्यते दीयत इत्यर्थः । अथ को गुणस्तस्य चरमाहारेण दत्तेनेत्यत आहभा. [४३२४] तन्हाछेयम्मि कए न तस्स तहियं पवत्तए भावो ।
Jain Education International
चरमं च जे स भूंजइ सद्धा जननं दुपक्खेवि ॥
वृ. तेन चरमाहारेण प्रदत्तेन तृष्णाच्छेद आहारकांक्षा व्यवच्छेदे कृते न भूयस्तत्राहारविषये तस्य भाव इच्छाया प्रवर्तते । वक्ष्यमाणवैराग्यभावनाप्रवृत्तेः तथा चरमाहारमेष भुङ्क्ते इति श्रद्धाजननं द्विपक्षेऽपि भक्तप्रत्याख्यातनिर्यापकाणां चेत्यर्थः । तथाहि भक्तप्रत्याख्याता इदं चिन्तयति । अमयभ्युद्यतमरणसमुद्रस्य तीरं प्राप्तो दुर्लभमेतत् निस्तीर्णोऽहं संसारादिति गाढतरं ध्यानमुपागतो भवति निर्यापका अप्येवं चिन्तयन्ति-वयमेवाभ्युद्यतमरणस्य तीरे प्राप्ता भविष्यामो
For Private & Personal Use Only
www.jainelibrary.org