SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४३१० ] ४८५ इक्षुयंत्रशालायाम् इक्षुपीडनशाला समीपे वा तिलादिदर्शनतः कर्मकरगानशब्दशर्वणतो वा ध्यानभङ्गोपपत्तेः अग्निकर्म लोहकारकर्म तच्छाला अग्निकर्मलोहकारकर्मशालायां अग्निकर्मशालासमीपे वा पुरुष: कुंभकारः कुंभकारशालायां कुंभकारशालासमीपे वा अग्निपरितापतो लोहकुट्ठनादिशब्दश्रवणतो वाध्यते व्याघातसंभवात् तथा नन्तिक्ता: छिपास्तच्छालासमीपे वा रजकशालायां रजकशालासमीपे वा देवडशालायं समीपे वा जुगुप्सादोषात् डोम्बलंखकास्तेऽपि गायन्ति । अथवा चण्डालविशेषगायना डोम्बास्तेषां शालायां तच्छालासमीपे वा जुगुप्सादोषात् । गानशब्दश्रवणतो ध्यानव्याघात भावाच्च तथा पाडहिकशालायां पाडहिकसमीपे वा वादित्रशब्दश्रवणतो ध्यानव्याघातः राजपथे समीपे वा राज्ञ आगच्छता गच्छता वा समृद्धिदर्शनतो निदानकरणप्रसक्तेः, तथा चारको गुप्तिगृहं तत्र तस्य समीपे धारयता शब्दश्रवणतो ध्यानव्याघातभावात् कोष्ट्राका नाम वट्टानां शाला, कोष्ट्रके कोष्ट्रकसमीपे वा वट्टा अपि गायन्ति, विरूपरूपाणि च भाष्यते, ततो ध्यानव्याघातः, तथा कल्पपालाः सुरादिविक्रयकारिणो मद्यपा वा तेषां शालायां तच्छाला समीपे वा यसस्तत्र मत्तप्रमत्ता गायन्ति पूत्कुर्वन्ति ततो ध्याने व्याघातसंभवः तथा क्रकचके यत्र काष्टानि क्रकच्यन्ते क्रकचसमीपे वा । काष्टक्रकचशब्दश्रवणतः कारपत्रिकगानशब्द श्रवणतो ध्यानभ्रंशोपपत्तेः पुप्फफलदगसमीवम्मित्ति पुष्पसमीपे फलसमीपे उदकसमीपे वा पुष्पादिदर्शनतः तद्विषयाभिलापोपपत्तेः । तथा आरामे तत्राप्पनन्तरोदितदोषप्रसङ्गात् यथा विकटं नाम असंगुप्तद्वारम् (च) । तत्र पानके पाने कायिक्यादि परिस्थापने च सागारिकसंभवात् तथा नागगृहे उपलक्षणमेतत् । यक्षगृहादिषु तत्रापि भूयसां लोकानां नानाविधविकुर्वितवेषाणामागत्यागत्यगाननर्तनकरणात्तथा च सति ध्याने व्याघातसंभवः । यदि वा नागदयोऽनुकम्पया प्रत्यनीकतया विमर्शेन वा अनुलोमान् प्रतिलोमान्वा उपसर्गान् कुर्युः । पूर्वभणिते च प्राक्कल्पाध्ययनाभिहिते च भक्तप्रत्याख्यातुकामे तदेव भावयति । भा. [४३११] पढमबिएस कप्पे उद्देसेसु उवस्सया जे उ । विहिसुत्ते य निसिद्धा तव्विवरी गवेसेज्जा | वृ.कल्पे कल्पाध्ययने द्वितीयतृतीययोरुद्देशयोर्विधिसूत्रे च आचाराङ्गे शय्याध्ययने अवग्रहप्रतिमास्थाननिषीदनके च ये उपाश्रया निषिद्धास्तेषुनस्थातव्यं । किन्तु तद्विपरीतान् प्रदेशान् गवेषयेत् । तथा भा. [४३१२] -- उज्जाणरुक्खमूले सुन्नघरअनिसट्ट हरिय मग्गे य । एवं विहे न ट्ठाय हुज्जा समाहीए वाघातो ॥ वृ. उद्याने वृक्षमूले शून्यगृहे अनिसृष्टे अननुज्ञाते हरिते हरिताकुले मार्गे च अन्यस्मिन्नपि च एवंविधे स्थाने न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधेः व्याघातो भवति । गतमप्रशस्तस्थानद्वारमधुना प्रशस्तवसतिद्वारमाह भा. [४३१३] इंदियपडिसंचारो मनसंखोभकरणं जहिं नत्थि । चाउस्सालादि दुवे, अनुन्नवेउण ट्ठायन्ति ॥ वृ. यत्र इन्द्रियप्रतिसंचारो न भवति, किमुक्तं भवति ? यत्र अनिष्टा इष्टा वा शब्दा न For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy