________________
४८४
व्यवहार-छेदसूत्रम्-२- १०/२५१ जातमालोचयितव्यं नवरंतत्र नानात्वं दर्शनं नाम श्रद्धानं चरणेऽपि चारित्रेऽपि स्यादियमतीचारता सेविता, तद्यथा-एषणायामेषणाविषये दोषोपेतबसतिविषये व्रतविषयो वेति।
सम्प्रत तिण्हं चउक्कमविसोही इथ्यस्यान्यथा व्याख्यातुमाहभा. [४३०४] अहवा तिगसालंबेण दव्वमादी चउक्कमाहच्च।
आसेवियं निरालंतोव्व आलोअए तं तु ।। वृ.अथवेति प्रकारान्तरे त्रिकसालंबेनोपेतेन द्रव्यादिचतुष्कं द्रव्यक्षेत्रकालभावलक्षणमाहच्च कदाचित् । अकल्पनीयमयतनया यतनया वा सेवितमथवा निरालम्बको ज्ञानाद्यालम्बनरहितो द्रव्यादिचतुष्कमकल्पिकमासेवितवान् । एतेनैतत् ख्यापितं यत् प्रतिसेव्यते किञ्चिदकल्पिकं तत् दर्पतः कल्पतो भावतः परमपरप्रकारान्तरमस्तीति एतेत् आलोचयेत्। भा.[४३०५] पडिसेवणातियारा जइ वीसरिया कहं चिहुज्जाणु।
तेसु कह वट्ठियव्वं सल्लुद्धरणंपि समणाणं ।। वृ.प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुस्तेषु शल्योद्धरणे कर्तव्ये कथं श्रमणेन वर्तितव्यं । सूरिवर्तनप्रकारमाहभा.[४३०६] जे मे जाणंति जिना अवराहे जेसु जेसु ट्ठाणेसु ।
तेहिं आलोएउं उवट्ठितो सव्वभावेणं ॥ भा.[४३०७] एवं आलोएंतो विसुद्धभावपरिणामसंजुत्तो।
आराहओ तह वि सो गारव पडिकुंचना रहितो।। वृ.यान्ममापराधान् येषु येषु स्थानेषु जिना: केवलिनो भगवन्तो जानन्ति तानहं सर्वभावेन सर्वात्मना आलोचयितुमुपस्थितः परं न स्मरामि वचसा न प्रकटीकर्तुं शक्नोमि, । तस्माज्जिनदृष्टान्तमेव प्रमाणमित्यालोचयितव्यं । यद्यप्येवं संमुग्धाकारमालोचयति । तथापि स गौरवप्रतिकुञ्चनारहितो विशुद्धेन भावपरिणामेन संयुक्त एवमालोचयेत् आराधकः प्रतिकुञ्चना नाम माया, गतमालोचनाद्वारमधुना प्रशस्तस्थानद्वारमाहभा.[४३०८] ट्ठाणं पुन केरिसगं होइ पसत्थंतु जस्स जं जोग्गं ।
भण्णति जत्थ न होज्जा कारणस्स उ तस्स वाघातो ।। वृ. तस्य भक्तं प्रत्याख्यातुर्यत्प्रशस्तं योग्यस्थानं तत् कीदृशं सूरिराह-भण्यते यत्र तस्य कृतभक्तप्रत्याख्यानस्य ध्यानव्याघातो भवति तान्युपदर्शयति।। भा.[४३०९] गंधव्वनट्टजड्डो स्स चक्कजन्तग्गिकम्म पुरुसे य
नंतिक्क रयग देवडडोंब पाहिडिग रायपहे ।। भा.[४३१०] चारगकोट्ठग वट्ठाण, कप्पपुप्फदगसमीवं मि,
आरामे अहवियटे नागधरे पुव्वभणिए य ।। वृ.गन्धर्वशालायं यत्र गन्धविकाः संगीतं कुर्वन्ति तत्र गन्धर्वशालासमीपे वा न स्थातव्यं ध्यानव्याघातभावात् । तथा नृत्यशालासमीपे वा तत्राप्युक्तदोषसंभवात् । तथा जड्डो हस्ती अश्वस्तुरङ्गमो हस्तिशालासमीपे वा तुरंगमशालासमीपे वा हस्तिकादिविरूपशब्दश्रवणतो ध्यानव्याघातभावात् तथा चक्रशालायां तिलपीडनशालायां तिलपीडनशालासमीपे वा जन्तति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org